Thursday, January 17, 2019

॥ विद्येश्वरसंहिता दशमोऽध्यायः ॥

विद्येश्वरसंहितायां दशमोऽध्यायः

ब्रह्मविष्णुभ्यां पंचकृत्यमोंकारमंत्रं चोपदिश्य शिवस्यान्तर्धानम् -



ब्रह्मविष्णू ऊचतुः -
सर्गादिपञ्चकृत्यस्य लक्षणं ब्रूहि नौ प्रभो ।
शिव उवाच -
मत्कृत्यबोधनं गुह्यं कृपया प्रब्रवीमि वाम् ॥ १ ॥
सृष्टिः स्थितिश्च संहारस्तिरोभावोऽप्यनुग्रहः ।
पञ्चैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ ॥ २ ॥
सर्गः संसारसंरम्भस्तत्प्रतिष्ठा स्थितिर्मता ।
संहारो मर्दनं तस्य तिरोभावस्तदुत्क्रमः ॥ ३ ॥
तन्मोक्षोऽनुग्रहस्तन्मे कृत्यमेवं हि पञ्चकम् ।
कृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिंबवत् ॥ ४ ॥
सर्गादि यच्चतुःकृत्यं संसारपरिजृम्भणम् ।
पञ्चमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम् ॥ ५ ॥
तदिदं पञ्चभूतेषु दृश्यते मामकैर्जनैः ।
सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ॥ ६ ॥
तिरोभावोऽनिले तद्वदनुग्रह इहाम्बरे ।
सृज्यते धरया सर्वमद्‌भिः सर्वं प्रवर्धते ॥ ७ ॥
अर्द्यते तेजसा सर्वं वायुना चापनीयते ।
व्योम्नाऽनुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः ॥ ८ ॥
पञ्चकृत्यमिदं वोढुं ममास्ति मुखपञ्चकम् ।
चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पञ्चमं मुखम् ॥ ९ ॥
युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ ।
सृष्टिस्थित्यभीधं भाग्यं मत्तः प्रीतादतिप्रियम् ॥ १० ॥
तथा रुद्रमहेशाभ्यामन्यत्कृत्यद्वयं परम् ।
अनुग्रहाख्यं केनापि लब्धुं नैव हि शक्यते ॥ ११ ॥
तत्सर्वं पौर्विकं कर्म युवाभ्यां कालविस्मृतम् ।
न तद्‌रुद्रमहेशाभ्यां विस्मृतं कर्म तादृशम् ॥ १२ ॥
रूपे वेशे च कृत्ये च वाहने चासने तथा ।
आयुधादौ च मत्साम्यमस्माभिस्तत्कृते कृतम् ॥ १३ ॥
मद्ध्यानविरहाद्‌वत्सौ मौढ्यं वामेवमागतम् ।
मज्ज्ञाने सति मैवं स्यान्मानं रूपं महेशवत् ॥ १४ ॥
तस्मान्मज्ज्ञानसिद्ध्यर्थं मन्त्रमोङ्‌कारनामकम् ।
इतः परं प्रजपतं मामकं मानभञ्जनम् ॥ १५ ॥
उपादिशं निजं मन्त्रमोङ्‌कारमुरुमङ्‌गलम् ।
ॐकारो मन्मुखाज्जज्ञे प्रथमं मत्प्रबोधकः ॥ १६ ॥
वाचकोऽयमहं वाच्यो मन्त्रोऽयं हि मदात्मकः ।
तदनुस्मरणं नित्यं ममानुस्मरणं भवेत् ॥ १७ ॥
अकार उत्तरात्पूर्वमुकारः पश्चिमाननात् ।
मकारो दक्षिणमुखाद्‌बिन्दुः प्राङ्मुखतस्तथा ॥ १८ ॥
नादो मध्यमुखादेवं पञ्चधाऽसौ विजृम्भितः ।
एकीभूतः पुनस्तद्वदोमित्येकाक्षरोऽभवत् ॥ १९ ॥
नामरूपात्मकं सर्वं वेदभूतकुलद्वयम् ।
व्याप्तमेतेन मन्त्रेण शिवशक्त्योश्च बोधकः ॥ २० ॥
अस्मात्पञ्चाक्षरं जज्ञे बोधकं सकलस्य तत् ।
आकारादिक्रमेणैव नकारादि यथाक्रमम् ॥ २१ ॥
अस्मात्पञ्चाक्षराज्जाता मातृकाः पञ्चभेदतः ।
तस्माच्छिवरश्चतुर्वक्त्रात्त्रिपाद्‌गायत्रिरेव हि ॥ २२ ॥
वेदः सर्वस्ततो जज्ञे ततो वै मन्त्रकोटयः ।
तत्तन्मन्त्रेण तत्सिद्धिः सर्वसिद्धिरितो भवेत् ॥ २३ ॥
अनेन मन्त्रकन्देन भोगो मोक्षश्च सिद्ध्यति ।
सकला मन्त्रराजानः साक्षाद्‌भोगप्रदाः शुभाः ॥ २४ ॥
नन्दिकेश्वर उवाच -
पुनस्तयोस्तत्र तिरः पटं गुरुः
     प्रकल्प्य मन्त्रं च समादिशत्परम् ।
निधाय तच्छीर्ष्णि कराम्बुजं शनै-
     रुदङ्मुखं संस्थितयोः सहाम्बिकः ॥ २५ ॥
त्रिरुच्चार्याग्रहीन्मन्त्रं यन्त्रतन्त्रोक्तिपूर्वकम् ।
शिष्यौ च तौ दक्षिणायामात्मानं च समर्पयत् ॥ २६ ॥
प्रबद्धहस्तौ किल तौ तदन्तिके
     तमूचर्देववरं जगद्‌गुरुम् ॥ २७ ॥
ब्रह्माच्युतावूचतुः -
नमो निष्कलरूपाय नमो निष्कलतेजसे ।
नमः सकलनाथाय नमस्ते सकलात्मने ॥ २८ ॥
नमः प्रणववाच्याय नमः प्रणवलिङ्‌गिने ।
नमः सृष्ट्यादिकर्त्रे च नमः पञ्चमुखाय ते ॥ २९ ॥
पञ्चब्रह्मस्वरूपाय पञ्चकृत्याय ते नमः ।
आत्मने ब्रह्मणे तुभ्यमनन्तगुणशक्तये ॥ ३० ॥
सकलाकलरूपाय शम्भवे गुरवे नमः ।
इति स्तुत्वा गुरुं पद्यैर्ब्रह्माविष्णू च नेमतुः ॥ ३१ ॥
ईश्वर उवाच -
वत्सकौ सर्वतत्त्वं च कथितं दर्शितं च वाम् ।
जपतं प्रणवं मन्त्रं दिव्यमिष्टं मदात्मकम् ॥ ३२ ॥
ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् ।
आर्द्रायां च चतुर्दश्यां तज्जप्यं त्वक्षयं भवेत् ॥ ३३ ॥
सूर्यगत्या महार्द्रायामेकं कोटिगुणं भवेत् ।
मृगशीर्षान्तिमो भागः पुनर्वस्वादिमस्तथा ॥ ३४ ॥
आर्द्रासमः सदा ज्ञेयः पूजाहोमादितर्पणे ।
दर्शनं तु प्रभाते च प्रातः सङ्‌गमकालयोः ॥ ३५ ॥
चतुर्दशी तथा ग्राह्या निशीथव्यापिनी भवेत् ।
प्रदोषव्यापिनी चैव परयुक्ता प्रशस्यते ॥ ३६ ॥
लिङ्‌गवेरं च मे तुल्यं यजतां लिङ्‌गमुत्तमम् ।
तस्माल्लिङ्‌गं परं पूज्यं वेरादपि मुमुक्षुभिः ॥ ३७ ॥
लिङ्‌गमोङ्‌कारमन्त्रेण वेरं पञ्चाक्षरेण तु ।
स्वयमेव हि सद्‌‍द्रव्यैः प्रतिष्ठाप्यं परैरपि ॥ ३८ ॥
पूजयेदुपचारैश्च मत्पदं सुलभं भवेत् ।
इति शास्य तथा शिष्यौ तत्रैवान्तर्हितः शिवः ॥ ३९ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
ओङ्‌कारोपदेशवर्णनं नाम दशमोऽध्यायः

Wednesday, January 16, 2019

॥ विद्येश्वरसंहिता नवमोऽध्यायः ॥

विद्येश्वरसंहितायां नवमोऽध्यायः

शिवस्यात्मनो महेश्वराभिधानम्



नन्दिकेश्वर उवाच
तत्रान्तरे तौ च नाथं प्रणम्य विधिमाधवौ ।
बद्धाञ्जलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ ॥ १ ॥
तत्र संस्थाप्य तौ देवं सकुटुम्बं वरासने ।
पूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः ॥ २ ॥
पौरुषं प्राकृतं वस्तु ज्ञेयं दीर्घाल्पकालिकम् ।
हारनूपुरकेयूरकिरीटमणिकुण्डलैः ॥ ३ ॥
यज्ञसूत्रोत्तरीयस्रक्क्षौममाल्याङ्‌गुलीयकैः ।
पुष्पताम्बूलकर्पूरचन्दनागुरुलेपनैः ॥ ४ ॥
धूपदीपसितच्छत्रव्यञ्जनध्वजचामरैः ।
अन्यैर्दिव्योपहारैश्च वाङ्‌मनोतीतवैभवैः ॥ ५ ॥
पतियोग्यैः पश्वलभ्यैस्तौ समार्चयतां पतिम् ।
यद्यच्छ्रेष्ठतमं वस्तु पतियोग्यं हितद्ध्वज ॥ ६ ॥
तद्वस्त्वखिलमीशोऽपि पारं पर्यचिकीर्षया ।
सभ्यानां प्रददौ हृष्टः पृथक्तत्र यथाक्रमम् ॥ ७ ॥
कोलाहलो महानासीत्तत्र तद्वस्तु गृह्यताम् ।
तत्रैव ब्रह्मविष्णुभ्यां चार्चितः शङ्‌करः पुरा ॥ ८ ॥
प्रसन्नः प्राह तौ नम्रौ सस्मितं भक्तिवर्धनः ।
ईश्वर उवाच -
तुष्टोऽहमद्य वां वत्सौ पूजयाऽस्मिन्महादिने ॥ ९ ॥
दिनमेतत्ततः पुण्यं भविष्यति महत्तरम् ।
शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया ॥ १० ॥
एतत्काले तु यः कुर्यात्पूजां मल्लिङ्‌गवेरयोः ।
कुर्यात्तु जगतः कृत्यं स्थितिसर्गादिकं पुमान् ॥ ११ ॥
शिवरात्रावहोरात्रं निराहारो जितेन्द्रियः ।
अर्चयेद्वा यथान्यायं यथाबलमवञ्चकः ॥ १२ ॥
यत्फलं मम पूजायां वर्षमेकं निरन्तरम् ।
तत्फलं लभते सद्यः शिवरात्रौ मदर्चनात् ॥ १३ ॥
मद्धर्मवृद्धिकालोऽयं चन्द्रकाल इवाम्बुधेः ।
प्रतिष्ठाद्युत्सवो यत्र मामको मङ्‌गलायनः ॥ १४ ॥
यत्पुनः स्तम्भरूपेण स्वाविरासमहं पुरा ।
स कालो मार्गशीर्षे तु स्यादार्द्राऋक्षमर्भकौ ॥ १५ ॥
आर्द्रायां मार्गशीर्षे तु यः पश्येन्मामुमासखम् ।
मद्‌वेरमपि वा लिङ्‌गं स गुहादपि मे प्रियः ॥ १६ ॥
अलं दर्शनमात्रेण फलं तस्मिन्दिने शुभे ।
अभ्यर्चनं चेदधिकं फलं वाचामगोचरम् ॥ १७ ॥
रणरङ्‌गतलेऽमुष्मिन्यदहं लिङ्‌गवर्ष्मणा ।
जृम्भितो लिङ्‌गवत्तस्माल्लिङ्‌गस्थानमिदं भवेत् ॥ १८ ॥
अनाद्यन्तमिदं स्तम्भमणुमात्रं भविष्यति ।
दर्शनार्थं हि जगतां पूजनार्थं हि पुत्रकौ ॥ १९ ॥
भोगावहमिदं लिङ्‌गं भुक्तिमुक्त्येकसाधनम् ।
दर्शनस्पर्शनध्यानाज्जन्तूनां जन्ममोचनम् ॥ २० ॥
अनलाचलसङ्‌काशं यदिदं लिङ्‌गमुत्थितम् ।
अरुणाचलमित्येव तदिदं ख्यातिमेष्यति ॥ २१ ॥
अत्र तीर्थं च बहुधा भविष्यति महत्तरम् ।
मुक्तिरप्यत्र जन्तूनां वासेन मरणेन च ॥ २२ ॥
रथोत्सवादिकल्याणं जनावासं तु सर्वतः ।
अत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत् ॥ २३ ॥
मत्क्षेत्रादपि सर्वस्मात्क्षेत्रमेतन्महत्तरम् ।
अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम् ॥ २४ ॥
तस्मान्महत्तरमिदं क्षेत्रमत्यन्तशोभनम् ।
सर्वकल्याणसम्पूर्णं सर्वमुक्तिकरं शुभम् ॥ २५ ॥
अर्चयित्वाऽत्र मामेव लिङ्‌गे लिङ्‌गिनमीश्वरम् ।
सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च ॥ २६ ॥
सायुज्यमिति पञ्चैते क्रियादीनां फलं मतम् ।
सर्वेपि यूयं सकलं प्राप्स्यथाशु मनोरथम् ॥ २७ ॥
नन्दिकेश्वर उवाच -
इत्यनुगृह्य भगवान्विनीतौ विधिमाधवौ ।
यत्पूर्वं प्रहतं युद्धे तयोः सैन्यं परस्परम् ॥ २८ ॥
तदुत्थापयदत्यर्थं स्वशक्त्याऽमृतधारया ।
तयोर्मौढ्यं च वैरं च व्यपनेतुमुवाच तौ ॥ २९ ॥
सकलं निष्कलं चेति स्वरूपद्वयमस्ति मे ।
नान्यस्य कस्यचित्तस्मादन्यः सर्वोऽप्यनीश्वरः ॥ ३० ॥
पुरस्तात्स्तम्भरूपेण पश्चाद्‌रूपेण चार्भकौ ।
ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा ॥ ३१ ॥
द्वयं ममैव संसिद्धं न मदन्यस्य कस्यचित् ।
तस्मादीशत्वमन्येषां युवयोरपि न क्वचित् ॥ ३२ ॥
तदज्ञानेन वां वृत्तमीशमानं महाद्‌भुतम् ।
तन्निराकर्तुमत्रैवमुत्थितोऽहं रणक्षितौ ॥ ३३ ॥
त्यजतं मानमात्मीयं मयीशं कुरुतं मतिम् ।
मत्प्रसादेन लोकेषु सर्वोऽप्यर्थः प्रकाशते ॥ ३४ ॥
गुरूक्तिर्व्यञ्जकं तत्र प्रमाणं वा पुनः पुनः ।
ब्रह्मतत्त्वमिदं गूढं भवत्प्रीत्या भणाम्यहम् ॥ ३५ ॥
अहमेव परं ब्रह्म मत्स्वरूपं कलाकलम् ।
ब्रह्मत्वादीश्वरश्चाहं कृत्यं मेनुग्रहादिकम् ॥ ३६ ॥
बृहत्त्वाद्‌बृंहणत्वाच्च ब्रह्माहं ब्रह्मकेशवौ ।
समत्वाद्व्यापकत्वाच्च तथैवात्माहमर्भकौ ॥ ३७ ॥
अनात्मानः परे सर्वे जीवा एव न संशयः ।
अनुग्रहाद्यं सर्गान्तं जगत्कृत्यं च पञ्चकम् ॥ ३८ ॥
ईशत्वादेव मे नित्यं न मदन्यस्य कस्यचित् ।
आदौ ब्रह्मत्त्वबुद्ध्यर्थं निष्कलं लिङ्‌गमुत्थितम् ॥ ३९ ॥
तस्मादज्ञातमीशत्वं व्यक्तं द्योतयितुं हि वाम् ।
सकलोहमतो जातः साक्षादीशस्तु तत्क्षणात् ॥ ४० ॥
सकलत्वमतो ज्ञेयमीशत्वं मयि सत्वरम् ।
यदिदं निष्कलं स्तम्भं मम ब्रह्मत्वबोधकम् ॥ ४१ ॥
लिङ्‌गलक्षणयुक्तत्वान्मम लिङ्‌गं भवेदिदम् ।
तदिदं नित्यमभ्यर्च्यं युवाभ्यामत्र पुत्रकौ ॥ ४२ ॥
मदात्मकमिदं नित्यं मम सान्निध्यकारणम् ।
महत्पूज्यमिदं नित्यमभेदाल्लिङ्‌गलिङ्‌गिनोः ॥ ४३ ॥
यत्रप्रतिष्ठितं येन मदीयं लिङ्‌गमीदृशम् ।
तत्र प्रतिष्ठितः सोऽहमप्रतिष्ठोपि वत्सकौ ॥ ४४ ॥
मत्साम्यमेकलिङ्‌गस्य स्थापने फलमीरितम् ।
द्वितीये स्थापिते लिङ्‌गे मदैक्यं फलमेव हि ॥ ४५ ॥
लिङ्‌गं प्राधान्यतः स्थाप्यं तथा वेरं तु गौणकम् ।
लिङ्‌गान्भावेन तत्क्षेत्रं सवेरमपि सर्वतः ॥ ४६ ॥
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां
शिवस्य महेश्वराभिधानवर्णनं नाम नवमोऽध्यायः

Tuesday, January 15, 2019

॥ विद्येश्वरसंहिता अष्टमोऽध्यायः ॥

विद्येश्वरसंहितायां अष्टमोऽध्यायः

ब्रह्मोपरि शिवस्यानुग्रहः



नन्दिकेश्वर उवाच -
ससर्जाथ महादेवः पुरुषं कञ्चिदद्‌भुतम् ।
भैरवाख्यं भ्रुवोर्मध्याद्‌ब्रह्मदर्पजिघांसया ॥ १ ॥
स वै तदा तत्र पतिं प्रणम्य शिवमङ्‌गणे ।
किं कार्यं करवाण्यत्र शीघ्रमाज्ञापय प्रभो ॥ २ ॥
शिव उवाच -
वत्सयोऽयं विधिः साक्षाज्जगतामाद्यदैवतम् ।
नूनमर्चय खड्गं स्वं तिग्मेन जवसा परम् ॥ ३ ॥
स वै गृहीत्वैककरेण केशं
     तत्पञ्चमं दृप्तमसत्यभाषिणम् ।
छित्त्वा शिरो ह्यस्य निहन्तुमुद्यतः
     प्रकम्पयन्खड्गमतिस्फुटं करैः ॥ ४ ॥
पिता तवोत्सृष्टविभूषणाम्बर-
     स्रगुत्तरीयामलकेशसंहतिः ।
प्रवातरम्भेव लतेव चञ्चलः
     पपात वै भैरवपादपङ्‌कजे ॥ ५ ॥
तावद्विधिं तात दिदृक्षुरच्युतः
     कृपालुरस्मत्पतिपादपल्लवम् ।
निषिच्य बाष्पैरवदत्कृताञ्जलि-
     र्यथा शिशुः स्वं पितरं कलाक्षरम् ॥ ६ ॥
अच्युत उवाच
त्वया प्रयत्‍नेन पुरा हि दत्तं
     यदस्य पञ्चाननमीश चिह्नम् ।
तस्मात्क्षमस्वाद्यमनुग्रहार्हं
     कुरु प्रसादं विधये ह्यमुष्मै ॥ ७ ॥
इत्यर्थितोऽच्युतेनेशस्तुष्टः सुरगणाङ्‌गणे ।
निवर्तयामास तदा भैरवं ब्रह्मदण्डतः ॥ ८ ॥
अथाह देवः कितवं विधिं विगतकन्धरम् ।
ब्रह्मंस्त्वमर्हणाकाङ्‌क्षी शठेशत्वं समास्थितः ॥ ९ ॥
नातस्ते सत्कृतिर्लोके भूयात्स्थानोत्सवादिकम् ।
ब्रह्मोवाच -
स्वामिन्प्रसीदाद्य महाविभूते
     मन्ये वरं मे शिरसः प्रमोक्षम् ॥ १० ॥
नमस्तुभ्यं भगवते बन्धवे विश्वयोनये ।
सहिष्णवे च दोषाणां शम्भवे शैलधन्वने ॥ ११ ॥
ईश्वर उवाच -
अराजभयमेतद्वै जगत्सर्वं विनष्यति ।
ततस्त्वं जहि दण्डार्हं वह लोकधुरं शिशो ॥ १२ ॥
वरं ददामि ते तत्र गृहाण दुर्लभं परम् ।
वैतानिकेषु गृह्येषु यज्ञे च भवान्गुरुः ॥ १३ ॥
निष्फलस्त्वदृते यज्ञः साङ्‌गश्च सहदक्षिणः ।
अथाह देवः कितवं केतकं कूटसाक्षिणम् ॥ १४ ॥
रे रे केतक दुष्टस्त्वं शठ दूरमितो व्रज ।
ममापि प्रेम ते पुष्पे माभूत्पूजास्वितः परम् ॥ १५ ॥
इत्युक्ते तत्र देवेन केतकं देवजातयः ।
सर्वा निवारयामासुस्तत्पार्श्वादन्यतस्तदा ॥ १६ ॥
केतक उवाच -
नमस्ते नाथ मे जन्म निष्फलं भवदाज्ञया ।
सफलं क्रियतां तात क्षम्यतां मम किल्बिषम् ॥ १७ ॥
ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः ।
तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत् ॥ १८ ॥
तथा स्तुतस्तु भगवान्केतकेन सभास्थले ।
न मे त्वद्वारणं योग्यं सत्यवागहमीश्वरः ॥ १९ ॥
मदीयास्त्वां धरिष्यन्ति जन्म ते सफलं ततः ।
त्वं वै वितानव्याजेन ममोपरि भविष्यसि ॥ २० ॥
इत्यनुगृह्य भगवान्केतकं विधिमाधवौ ।
विरराज सभामध्ये सर्वदेवैरभिष्टुतः ॥ २१ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
शिवानुग्रहवर्णनं नाम अष्टमोऽध्यायः

Monday, January 14, 2019

॥ विद्येश्वरसंहिता सप्तमोऽध्यायः ॥

विद्येश्वरसंहितायां सप्तमोऽध्यायः 

समरे शम्भोरनलस्तम्भाविष्कारः;



ईश्वर उवाच
वत्सकाः स्वस्ति वः कच्चिद्वर्तते मम शासनात् ।
जगच्च देवतावंशः स्वस्वकर्मणि किं न वा ॥ १ ॥
प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मया सुराः ।
भवतामभितापेन पौनरुक्तेन भाषितम् ॥ २ ॥
इति सस्मितया माध्व्या कुमारपरिभाषया ।
समतोषयदम्बायाः स पतिस्तत्सुरव्रजम् ॥ ३ ॥
अथ युद्धाङ्‌गणं गन्तुं हरिधात्रोरधीश्वरः ।
आज्ञापयद्‌गणेशानां शतं तत्रैव संसदि ॥ ४ ॥
ततो वाद्यं बहुविधं प्रयाणाय परेशितुः ।
गणेश्वराश्च सन्नद्धा नानावाहनभूषणाः ॥ ५ ॥
प्रणवाकारमाद्यन्तं पञ्चमण्डलमण्डितम् ।
आरुरोह रथं भद्रमम्बिकापतिरीश्वरः ।
ससूनुगणमिन्द्राद्याः सर्वेऽप्यनुययुः सुराः ॥ ६ ॥
चित्रध्वजव्यजनचामरपुष्पवर्ष-
     सङ्‌गीतनृत्यनिवहैरपि वाद्यवर्गैः ।
संमानितः पशुपतिः परया च देव्या
     साकं तयोः समरभूमिमगात्ससैन्यः ॥ ७ ॥
समीक्ष्यं तु तयोर्युद्धं निगूढोऽभ्रं समास्थितः ।
समाप्तवाद्यनिर्घोषः शान्तोरुगणनिःस्वनः ॥ ८ ॥
अथ ब्रह्माच्युतौ वीरौ हन्तुकामौ परस्परम् ।
माहेश्वरेण चाऽस्त्रेण तथा पाशुपतेन च ॥ ९ ॥
अस्त्रज्वालैरथो दग्धं ब्रह्मविष्ण्वोर्जगत्त्रयम् ।
ईशोपि तं निरीक्ष्याथ ह्यकालप्रलयं भृशम् ॥ १० ॥
महानलस्तम्भविभीषणाकृति-
     र्बभूव तन्मध्यतले स निष्कलः ॥ ११ ॥
ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे ।
निपतेतुः क्षणेनैव ह्याविर्भूते महानले ॥ १२ ॥
दृष्ट्‍वा तदद्‌भुतं चित्रमस्त्रशान्तिकरं शुभम् ।
किमेतदद्‌भुताकारमित्यूचुश्च परस्परम् ॥ १३ ॥
अतीन्द्रियमिदं स्तम्भमग्निरूपं किमुत्थितम् ।
अस्योर्ध्वमपि चाधश्च आवयोर्लक्ष्यमेव हि ॥ १४ ॥
इति व्यवस्थितौ वीरौ मिलितौ वीरमानिनौ ।
तत्परौ तत्परीक्षार्थं प्रतस्थातेऽथ सत्वरम् ॥ १५ ॥
आवयोर्मिश्रयोस्तत्र कार्यमेकं न सम्भवेत् ।
इत्युक्त्वा सूकरतनुर्विष्णुस्तस्यादिमीयिवान् ॥ १६ ॥
तथा ब्रह्माहं हंसतनुस्तदन्तं वीक्षितुं ययौ ।
भित्त्वा पातालनिलयं गत्वा दूरतरं हरिः ॥ १७ ॥
नापश्यत्तस्य संस्थानं स्तम्भस्यानलवर्चसः ।
श्रान्तः स सूकरहरिः प्राप पूर्वं रणाङ्‌गणम् ॥ १८ ॥
अथ गच्छंस्तु व्योम्ना च विधिस्तात पिता तव ।
ददर्श केतकीपुष्पं किञ्चिद्वितच्युतमद्‌भुतम् ॥ १९ ॥
अतिसौरभ्यमम्लानं बहुवर्षच्युतं तथा ।
अन्वीक्ष्य च तयोः कृत्यं भगवान् परमेश्वरः ॥ २० ॥
परिहासं तु कृतवान् कम्पनाच्चलितं शिरः ।
तस्मात्तावनुगृह्णातुं च्युतं केतकमुत्तमम् ॥ २१ ॥
किं त्वं पतसि पुष्पेश पुष्पराट् केन वा धृतः ।
आदिमस्याप्रमेयस्य स्तम्भमध्याच्च्युतिश्चिरम् ॥ २२ ॥
न सम्पश्यामि तस्मात्त्वं जह्याशामन्तदर्शने ।
अस्यान्तस्य च सेवार्थं हंसमूर्तिरिहागतः ॥ २३ ॥
इतः परं सखे मेऽद्य त्वया कर्तव्यमीप्सितम् ।
मया सह त्वया वाच्यमेतद्विष्णोश्च सन्निधौ ॥ २४ ॥
स्तम्भातो वीक्षितो धात्रा तत्र साक्ष्यहमच्युत ।
इत्युक्त्वा केतकं तत्र प्रणनाम पुनः पुनः ।
असत्यमपि शस्त्रं स्यादापदीत्यनुशासनम् ॥ २५ ॥
समीक्ष्य तत्राऽच्युतमायतश्रमं
     प्रनष्टहर्षं तु ननर्त हर्षात् ।
उवाच चैनं परमार्थमच्युतं
षण्ढात्तवादः स विधिस्ततोऽच्युतम् ॥ २६ ॥
स्तम्भाग्रमेतत्समुदीक्षितं हरे
     तत्रैव साक्षी ननु केतकं त्विदम् ।
ततोऽवदत् तत्र हि केतकं मृषा
     तथेति तद्धातृवचस्तदन्तिके ।
हरिश्च तत्सत्यमितीव चिन्तयं-
     श्चकार तस्मै विधये नमः स्वयम् ॥ २७ ॥
षोढशैरुपचारैश्च पूजयामास तं विधिम् ॥ २८ ॥
विधिं प्रहर्तुं शठमग्नलिङ्‌गतः
     स ईश्वरस्तत्र बभूव साकृतिः ।
समुत्थितः स्वामि विलोकनात् पुनः
     प्रकम्पपाणिः परिगृह्य तत्पदम् ॥ २९ ॥
आद्यन्तहीनवपुषि त्वयि मोहबुद्ध्या
     भूयाद्विमर्श इह नावति कामनोत्थः ।
स त्वं प्रसीद करुणाकर कश्मलं नौ
     मृष्टं क्षमस्व विहितं भवतैव केल्या ॥ ३० ॥
ईश्वर उवाच
वत्सप्रसन्नोऽस्मि हरे यतस्त्व-
     मीशत्वमिच्छन्नपि सत्यवाक्यम् ।
ब्रूयास्ततस्ते भविता जनेषु
     साम्यं मया सत्कृतिरप्यलब्धाः ॥ ३१ ॥
इतः परं ते पृथगात्मनश्च
     क्षेत्रप्रतिष्ठोत्सवपूजनं च ॥ ३२ ॥
इति देवः पुरा प्रीतः सत्येन हरये परम् ।
ददौ स्वसाम्यमत्यर्थं देवसङ्‌घे च पश्यति ॥ ३३ ॥
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां
अनलस्थम्भाविष्कारवर्णनं नाम सप्तमोऽध्यायः

Sunday, January 13, 2019

॥ विद्येश्वरसंहिता षष्ठोऽध्यायः ॥

विद्येश्वरसंहितायां षष्ठोऽध्यायः 

परस्परमीश्वरत्वाभिमानिनोविष्णुब्रह्मणोर्युद्धे
क्षिप्तपाशुपतास्त्रभीतानाममराणां कैलासयात्रा -




 नन्दिकेश्वर उवाच -
पुरा कदाचिद्योगीन्द्र विष्णुर्विषधरासनः ।
सुष्वाप परया भूत्या स्वानुगैरपि संवृतः ॥ १ ॥
यदृच्छयाऽऽगतस्तत्र ब्रह्मा ब्रह्मविदां वरः ।
अपृच्छत् पुंडरीकाक्षं शयनं सर्वसुन्दरम् ॥ २ ॥
कस्त्वं पुरुषवच्छेषे दृष्ट्‍वा मामपि दृप्तवत् ।
उत्तिष्ठ वत्स मां पश्य तव नाथमिहागतम् ॥ ३ ॥
आगतं गुरुमाराध्यं दृष्ट्‍वा यो दृप्तवच्चरेत् ।
द्रोहिणस्तस्य मूढस्य प्रायश्चित्तं विधीयते ॥ ४ ॥
इति श्रुत्वा वचः क्रुद्धो बहिः शान्तवदाचरन् ।
स्वस्ति ते स्वागतं वत्स तिष्ठ पीठमितो विश ॥ ५ ॥
किमु ते व्याग्रवद्वक्त्रं विभाति विषमेक्षणम् ।
ब्रह्मोवाच -
वत्स विष्णो महामानमागतं कालवेगतः ॥ ६ ॥
पितामहश्च जगतः पाता च तव वत्सक ।
विष्णुरुवाच -
मत्स्थं जगदिदं वत्स मनुषे त्वं हि चोरवत् ॥ ७ ॥
मन्नाभिकमलाज्जातः पुत्रस्त्वं भाषसे वृथा ।
नन्दिकेश्वर उवाच -
एवं हि विवदतोस्तत्र मुग्धयोरजयोस्तदा ॥ ८ ॥
अहमेव वरो न त्वमहं प्रभुरहं प्रभुः ।
परस्परं हन्तुकामौ चक्रतुः समरोद्यमम् ॥ ९ ॥
युयुधातेऽमरौ वीरौ हंसपक्षीन्द्रवाहनौ ।
वैरञ्च्या वैष्णवाश्चैवं मिथो युयुधिरे तदा ॥ १० ॥
तावद्विमानगतयः सर्वा वै देवजातयः ।
दिदृक्षवः समाजग्मुः समरं तं महाद्‌भुतम् ॥ ११ ॥
क्षिपन्तः पुष्पवर्षाणि पश्यन्तः स्वैरमम्बरे ।
सुपर्णवाहनस्तत्र क्रुद्धो वै ब्रह्मवक्षसि ॥ १२ ॥
मुमोच बाणानसहानस्त्रांश्च विविधान् बहून् ।
मुमोचाऽथ विधिः क्रुद्धो विष्णोरुरसि दुःसहान् ॥ १३ ॥
बाणाननलसङ्‌काशानस्त्रांश्च बहुशस्तदा ।
तदाश्चर्यमिति स्पष्टं तयोः समरगोचरम् ॥ १४ ॥
समीक्ष्य दैवतगणाः शशंसुर्भृशमाकुलाः ।
ततो विष्णुः सुसङ्‌क्रुद्धः श्वसन् व्यसनकर्शितः ॥ १५ ॥
माहेश्वरास्त्रं मतिमान् सन्दधे ब्रह्मणोपरि ।
ततो ब्रह्मा भृशं क्रुद्धः कम्पयन्विश्वमेव हि ॥ १६ ॥
अस्त्रं पाशुपतं घोरं सन्दधे विष्णुवक्षसि ।
ततस्तदुत्थितं व्योम्नि तपनायुतसन्निभम् ॥ १७ ॥
सहस्रमुखमत्युग्रं चंडवातभयङ्‌करम् ।
अस्त्रद्वयमिदं तत्र ब्रह्मविष्ण्वोर्भयङ्‌करम् ॥ १८ ॥
इत्थं बभूव समरं ब्रह्मविष्ण्वोः परस्परम् ।
ततो देवगणाः सर्वे विषण्णा भृशमाकुलाः ।
ऊचुः परस्परं तात राजक्षोभे यथा द्विजाः ।॥ १९ ॥
सृष्टिः स्थितिश्च संहारस्तिरोभावोऽप्यनुग्रहः ।
यस्मात्प्रवर्तते तस्मै ब्रह्मणे च त्रिशूलिने ॥ २० ॥
अशक्यमन्यैर्यदनुग्रहं विना
तृणक्षयोप्यत्र यदृच्छया क्वचित् ॥ २१ ॥
इति देवा भयं कृत्वा विचिन्वन्तः शिवक्षयम् ।
जग्मुः कैलासशिखरं यत्रास्ते चन्द्रशेखरः ॥ २२ ॥
दृष्ट्‍वैवममरा हृष्टाः पदं तत्पारमेश्वरम् ।
प्रणेमुः प्रणवाकारं प्रविष्टास्तत्र सद्मनि ॥ २३ ॥
तेपि तत्र सभामध्ये मण्डपे मणिविष्टरे ।
विराजमानमुमया ददृशुर्देवपुङ्‌गवम् ॥ २४ ॥
सव्योत्तरेतरपदं तदर्हितकराम्बुजम् ।
स्वगणैः सर्वतो जुष्टं सर्वलक्षणलक्षितम् ॥ २५ ॥
वीज्यमानं विशोषजैः स्त्रीजनैस्तीव्रभावनैः ।
शस्यमानं सदा वेदैरनुगृह्णन्तमीश्वरम् ॥ २६ ॥
दृष्ट्‍वैवमीशममराः सन्तोषसलिलेक्षणाः ।
दण्डवद्दूरतो वत्स नमश्चक्रुर्महागणाः ॥ २७ ॥
तानवेक्ष्य पतिर्देवान् समीपे चाह्वयद्‌गणैः ।
अथ संह्लादयन्देवान्देवो देवशिखामणिः ।
अवोचदथ गम्भीरं वचनं मधुमङ्‌गलम् ॥ २८ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
देवानां कैलासयात्रावर्णनं नाम षष्ठोऽध्यायः

Saturday, January 12, 2019

॥ विद्येश्वरसंहिता पञ्चमोऽध्यायः ॥

विद्येश्वरसंहितायां पञ्चमोऽध्यायः

शिवलिङ्गमहिमा 



सूत उवाच
श्रवणादित्रिकेऽशक्तो लिङ्‌गं वेरं च शाङ्‌करम् ।
संस्थाप्य नित्यमभ्यर्च्य तरेत् संसारसागरम् ॥ १ ॥
अपि द्रव्यं वहेदेव यथाबलमवञ्चयन् ।
अर्पयेल्लिङ्‌गवेरार्थमर्चयेदपि सन्ततम् ॥ २ ॥
मंडपं गोपुरं तीर्थं मठं क्षेत्रं तथोत्सवम् ।
वस्त्रं गन्धं च माल्यं च धूपं दीपं च भक्तितः ॥ ३ ॥
विविधान्नं च नैवेद्यमपूपव्यञ्जनैर्युतम् ।
छत्रं ध्वजं च व्यजनं चामरं चापि साङ्‌गकम् ॥ ४ ॥
राजोपचारवत्सर्वं धारयेल्लिङ्‌गवेरयोः ।
प्रदक्षिणां नमस्कारं यथाशक्ति जपं तथा ॥ ५ ॥
आवाहनादिसर्गान्तं नित्यं कुर्यात् सुभक्तितः ।
इत्थमभ्यर्च्ययन् देवं लिङ्‌गे वेरे च शाङ्‌करे ॥ ६ ॥
सिद्धिमेति शिवप्रीत्या हित्वाऽपि श्रवणादिकम् ।
लिङ्‌गवेरार्चनामात्रान्मुक्ताः पुर्वे महाजनाः ॥ ७ ॥
मुनय ऊचुः
वेरमात्रे तु सर्वत्र पूज्यन्ते देवतागणाः ।
लिङ्‌गे वेरे च सर्वत्र कथं सम्पूज्यते शिवः ॥ ८ ॥
सूत उवाच
अहो मुनीश्वराः पुण्यं प्रश्नमेतन्महाद्‌भुतम् ।
अत्र वक्ता महादेवो नान्योऽस्ति पुरुषः क्वचित् ॥ ९ ॥
शिवेनोक्तं प्रवक्ष्यामि क्रमाद्‌गुरुमुखाच्छ्रुतम् ।
शिवैको ब्रह्मरूपत्वान्निष्कलः परिकीर्तितः ॥ १० ॥
रूपित्वात्सकलस्तद्वत्तस्मात्सकलनिष्कलः ।
निष्कलत्वान्निराकारं लिङ्‌गं तस्य समागतम् ॥ ११ ॥
सकलत्वात् तथा वेरं साकारं तस्य सङ्‌गतम् ।
सकलाकलरूपत्वाद्‌ ब्रह्म शब्दाभिधः परः ॥ १२ ॥
अपि लिङ्‌गे च वेरे च नित्यमभ्यर्च्यते जनैः ।
अब्रह्मत्वात् तदन्येषां निष्कलत्वं न हि क्वचित् ॥ १३ ॥
तस्मात् ते निष्कले लिङ्‌गे नाराध्यन्ते सुरेश्वराः ।
अब्रह्मत्वाच्च जीवत्वात् तथान्ये देवतागणाः ॥ १४ ॥
तूष्णीं सकलमात्रत्वादर्च्यन्ते वेरमात्रके ।
जीवत्वं शङ्‌करान्येषां ब्रह्मत्वं शङ्‌करस्य च ॥ १५ ॥
वेदान्तसारसंसिद्धं प्रणवार्थे प्रकाशनात् ।
एवमेव पुरा पृष्टो मन्दरे नन्दिकेश्वरः ॥ १६ ॥
सनत्कुमारमुनिना ब्रह्मपुत्रेण धीमता ।
सनत्कुमार उवाच
शिवान्यदेववश्यानां सर्वेषामपि सर्वतः ॥ १७ ॥
वेरमात्रं च पूजार्थं श्रुतं दृष्टं च भूरिशः ।
शिवमात्रस्य पूजायां लिङ्‌गं वेरञ्च दृश्यते ॥ १८ ॥
अतस्तद्‌ ब्रूहि कल्याण तत्त्वं मे साधुबोधनम् ।
नन्दिकेश्वर उवाच
अनुत्तरमिमं प्रश्नं रहस्यं ब्रह्मलक्षणम् ॥ १९ ॥
कथयामि शिवेनोक्तं भक्तियुक्तस्य तेऽनघ ।
शिवस्य ब्रह्मरूपत्वान्निष्कलत्वाच्च निष्कलम् ॥ २० ॥
लिङ्‌गं तस्यैव पूजायां सर्ववेदेषु संमतम् ।
तस्यैव सकलत्वाच्च तथा सकलनिष्कलम् ॥ २१ ॥
सकलं च तथा वेरं पूजायां लोकसंमतम् ।
शिवान्येषां च जीवत्वात् सकलत्वाच्च सर्वतः ॥ २२ ॥
वेरमात्रं च पूजायां संमतं वेदनिर्णये ।
स्वाविर्भावे च देवानां सकलं रूपमेव हि ॥ २३ ॥
शिवस्य लिङ्‌गं वेरं च दर्शने दृश्यते खलु ।
सनत्कुमार उवाच
उक्तं त्वया महाभाग लिङ्‌गवेरप्रचारणम् ॥ २४ ॥
शिवस्य च तदन्येषां विभज्य परमार्थतः ।
तस्मात्तदेव परमं लिङ्‌गवेरादिसम्भवम् ॥ २५ ॥
श्रोतुमिच्छामि योगीन्द्र लिङ्‌गाविर्भावलक्षणम् ।
नन्दिकेश्वर उवाच
शृणु वत्स भवत्प्रीत्या वक्ष्यामि परमार्थतः ॥ २६ ॥
पुरा कल्पे महाकाले प्रपन्ने लोकविश्रुते ।
आयुध्येतां महात्मानौ ब्रह्मविष्णू परस्परम् ॥ २७ ॥
तयोर्मानं निराकर्तुं तन्मध्ये परमेश्वरः ।
निष्कलस्तम्भरूपेण स्वरूपं समदर्शयत् ॥ २८ ॥
ततः स्वलिङ्‌गचिह्नत्वात् स्तम्भतो निष्कलं शिवः ।
स्वलिङ्‌गं दर्शयामास जगतां हितकाम्यया ॥ २९ ॥
तदाप्रभृति लोकेषु निष्कलं लिङ्‌गमैश्वरम् ।
सकलं च तथा वेरं शिवस्यैव प्रकल्पितम् ॥ ३० ॥
शिवान्येषः तु देवानां वेरमात्रं प्रकल्पितम् ।
तत्तद्‌वेरं तु देवानां तत्तद्‌भोगप्रदं शुभम् ।
शिवस्य लिङ्‌गवेरत्वं भोगमोक्षप्रदं शुभम् ॥ ३१ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
शिवल्लिङ्‍गमहिमवर्णनं नाम पञ्चमोऽध्यायः

Friday, January 11, 2019

॥ विद्येश्वरसंहिता चतुर्थोऽध्यायः ॥

विद्येश्वरसंहितायां चतुर्थोऽध्यायः

श्रवणकीर्तनमननानां श्रेष्ठत्वम्






मुनय ऊचुः
मननं कीदृशं ब्रह्मञ्छ्रवणं चापि कीदृशम् ।
कीर्तनं वा कथं तस्य कीर्तयैतद्यथायथम् ॥ १ ॥
ब्रह्मोवाच
पूजाजपेशगुणरूपविलासनाम्नां
     युक्तिप्रियेण मनसा परिशोधनं यत् ।
तत्सन्ततं मननमीश्वरदृष्टिलभ्यं
     सर्वेषु साधनवरेष्वपि मुख्यमुख्यम् ॥ २ ॥
गीतात्मना श्रुतिपदेन च भाषया वा
     शम्भुप्रतापगुणरूपविलासनाम्नाम् ।
वाचा स्फुटं तु रसवत्स्तवनं यदस्य
     तत्कीर्तनं भवति सा धनमत्र मध्यम् ॥ ३ ॥
येनापि केन करणेन च शब्दपुञ्जं
     यत्र क्वचिच्छिवपरं श्रवणेन्द्रियेण ।
स्त्रीकेलिवद्दृढतरं प्रणिधीयते य-
     त्तद्वै बुधाः श्रवणमत्र जगत्प्रसिद्धम् ॥ ४ ॥
सत्सङ्‌गमेन भवति श्रवणं पुरस्तात्
     सङ्‌कीर्तनं पशुपतेरथ तद्दृढं स्यात् ।
सर्वोत्तमं भवति तन्मननं तदन्ते
     सर्वं हि सम्भवति शङ्‌करदृष्टिपाते ॥ ५ ॥
सूत उवाच
अस्मिन्साधनमाहत्म्ये पुरा वृत्तं मुनीश्वराः ।
युष्मदर्थं प्रवक्ष्यामि शृणुध्वमवधानतः ॥ ६ ॥
पुरा मम गुरुर्व्यासः पराशरमुनेः सुतः ।
तपश्चचार सम्भ्रान्तः सरस्वत्यास्तटे शुभे ॥ ७ ॥
गच्छन् यदृच्छया तत्र विमानेनार्करोचिषा ।
सनत्कुमारो भगवान् ददर्श मम देशिकम् ॥ ८ ॥
ध्यानारूढः प्रबुद्धोऽसौ ददर्श तमजात्मजम् ।
प्रणिपत्याह सम्भ्रान्तः परं कौतूहलं मुनिः ॥ ९ ॥
दत्त्वार्घ्यमस्मै प्रददौ देवयोग्यं च विष्टरम् ।
प्रसन्नः प्राह तं प्रह्वं प्रभुर्गम्भीरया गिरा ॥ १० ॥
सनत्कुमाच
सत्यं वस्तु मुने दध्याः साक्षात्करणगोचरः ।
स शिवोऽथ सहायोऽत्र तपश्चरसि किं कृते ॥ ११ ॥
एवमुक्तः कुमारेण प्रोवाच स्वाशयं मुनिः ।
धर्मार्थकाममोक्षाश्च वेदमार्गे कृतादराः ॥ १२ ॥
बहुधा स्थापिता लोके मया त्वत्कृपया तथा ।
एवम्भूतस्य मेऽप्येवं गुरुभूतस्य सर्वतः ॥ १३ ॥
मुक्तिसाधनकं ज्ञानं नोदेति परमाद्‌भुतम् ।
तपश्चरामि मुक्त्यर्थं न जाने तत्र कारणम् ॥ १४ ॥
इत्थं कुमारो भगवान् व्यासेन मुनिनार्थितः ।
समर्थः प्राह विप्रेन्द्रा निश्चयं मुक्तिकारणम् ॥ १५ ॥
श्रवणं कीर्तनं शम्भोर्मननं च महत्तरम् ।
त्रयं साधनमुक्तं च विद्यते वेदसंमतम् ॥ १६ ॥
पुराऽहमथ सम्भ्रान्तो ह्यन्यसाधनसम्भ्रमः ।
अचले मन्दरे शैले तपश्चरणमाचरम् ॥ १७ ॥
शिवाज्ञया ततः प्राप्तो भगवान्नन्दिकेश्वरः ।
स मे दयालुर्भगवान् सर्वसाक्षी गणेश्वरः ॥ १८ ॥
उवाच मह्यं सस्नेहं मुक्तिसाधनमुत्तमम् ।
श्रवणं कीर्तनं शम्भोर्मननं वेदसंमतम् ॥ १९ ॥
त्रिकं च साधनं मुक्ते शिवेन मम भाषितम् ।
श्रवणादित्रिकं ब्रह्मन् कुरुष्वेति मुहुर्मुहुः ॥ २० ॥
एवमुक्त्वा ततो व्यासं सानुगो विधिनन्दनः ।
जगाम स्वविमानेन पदं परमशोभनम् ॥ २१ ॥
एवमुक्तं समासेन पूर्ववृत्तान्तमुत्तमम् ।
ऋषय ऊचुः
श्रवणादित्रयं सूत मुक्त्युपायस्त्वयेरितः ॥ २२ ॥
श्रवणादित्रिके शक्तः किं कृत्वा मुच्यते जनः ।
अयत्‍नेनैव मुक्तिः स्यात् कर्मणा केन हेतुना ॥ २३ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
साध्यसाधनखण्डे चतुर्थोऽध्यायः

Thursday, January 10, 2019

॥ विद्येश्वरसंहिता तृतीयोऽध्यायः ॥

विद्येश्वरसंहितायां तृतीयोऽध्यायः 

साध्यसाधनविचारः 





 व्यास उवाच
इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः ।
वेदान्तसारसर्वस्वं पुराणं श्रावयाद्‌भुतम् ॥ १ ॥
इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः ।
संस्मरञ्छङ्‌करं सूतः प्रोवाच मुनिसत्तमान् ॥ २ ॥
सूत उवाच
शृण्वन्तु ऋषयः सर्वे स्मृत्वा शिवमनामयम् ।
पुराणप्रवणं शैवं पुराणं वेदसारजम् ॥ ३ ॥
यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ॥ ४ ॥
वेदान्तवेद्यं तद्वस्तु विशेषेण प्रवर्णितम् ॥ ५ ॥
शृण्वन्तु ऋषयः सर्वे पुराणं वेदसारजम् ।
पुरा कालेन महता कल्पेऽतीते पुनः पुनः ॥ ६ ॥
अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ।
मुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् ॥ ७ ॥
इदं परमिदं नेति विवादः सुमहानभूत् ।
तेऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम् ॥ ८ ॥
वाग्भिर्विनयगर्भाभिः सर्वे प्राञ्जलयोऽब्रुवन् ।
त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ ९ ॥
कः पुमान् सर्वतत्त्वेभ्यः पुराणः परतः परः ।
ब्रह्मोवाच
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ १० ॥
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ।
सहभूतेन्द्रियैः सर्वैः प्रथमं सम्प्रसूयते ॥ ११ ॥
एष देवो महादेवः सर्वज्ञो जगदीश्वरः ।
अयं तु परया भक्त्या दृश्यते नाऽन्यथा क्वचित् ॥ १२ ॥
रुद्रो हरिर्हरश्चैव तथान्ये च सुरेश्वराः ।
भक्त्या परमया तस्य नित्यं दर्शनकाङ्‌क्षिणः ॥ १३ ॥
बहुनाऽत्र किमुक्तेन शिवे भक्त्या विमुच्यते ।
प्रसादाद्देवताभक्तिः प्रसादो भक्तिसम्भवः ।
यथेहाङ्‌कुरतो बीजं बीजतो वा यथाङ्‌कुरः ॥ १४ ॥
तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः ।
दीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम् ॥ १५ ॥
अमुष्यैवाध्वरेतस्य शिवस्यैव प्रसादतः ।
वेदोक्तविद्यासारं तु जायते साध्यसाधनम् ॥ १६ ॥
मुनयः ऊचुः
अथ किं परमं साध्यं किंवा तत्साधनं परम् ।
साधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः ॥ १७ ॥
ब्रह्मोवाच
साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् ।
साधकस्तत्प्रसादाद्यो नित्यादिफलनिःस्पृहः ॥ १८ ॥
कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम् ।
परमेशपदप्राप्तिः सालोक्यादिक्रमात्ततः ॥ १९ ॥
तत्तद्‌भक्त्यनुसारेण सर्वेषां परमं फलम् ।
तत्साधनं बहुविधं साक्षादीशेन बोधितम् ॥ २० ॥
सङ्‌क्षिप्य तत्र वः सारं साधनं प्रब्रवीम्यहम् ।
श्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा ॥ २१ ॥
मनसा मननं तस्य महासाधनमुच्यते ।
श्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः ॥ २२ ॥
इति श्रुतिः प्रमाणं नः साधनेनामुना परम् ।
साध्यं व्रजत सर्वार्थसाधनैकपरायणाः ॥ २३ ॥
प्रत्यक्षं चक्षुषा दृष्ट्‍वा तत्र लोकः प्रवर्तते ।
अप्रत्यक्षं हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते ॥ २४ ॥
तस्माच्छ्रवणमेवादौ श्रुत्वा गुरुमुखाद्‌ बुधः ।
ततः संसाधयेदन्यत् कीर्तनं मननं सुधीः ॥ २५ ॥
क्रमान्मननपर्यन्ते साधनेऽस्मिन् सुसाधिते ।
शिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः ॥ २६ ॥
सर्वाङ्‌गव्याधयः पश्चात् सर्वानन्दश्च लीयते ।
अभ्यासात् क्लेशमेतद्वै पश्चादाद्यन्तमङ्‌गलम् ॥ २७ ॥
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां
साध्यसाधनखण्डे तृतीयोऽध्यायः  


Wednesday, January 9, 2019

॥ विद्येश्वरसंहिता - द्वितीयोऽध्यायः ॥

 विद्येश्वरसंहितायां - द्वितीयोऽध्यायः

मुनिप्रश्नानामुत्तराणि 




सूत उवाच
साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् ।
गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् ॥ १ ॥
वेदान्तसारसर्वस्वं पुराणं शैवमुत्तमम् ।
सर्वाघौघोद्धारकरं परत्र परमार्थदम् ॥ २ ॥
कलिकल्मषविध्वंसि यस्मिञ्च्छिवयशः परम् ।
विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ॥ ३ ॥
तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ।
सर्वोत्तमस्य शैवस्य ते यास्यन्ति सुसद्‌गतिम् ॥ ४ ॥
तावद्विजृम्भते पापं ब्रह्महत्यापुरः सरम् ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ५ ॥
तावत्कलिमहोत्पाताः सञ्चरिष्यन्ति निर्भयाः ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ६ ॥
तावत्सर्वाणि शास्त्राणि विवदन्ते परस्परम् ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ७ ॥
तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ८ ॥
तावद्यमभटाः क्रूराः सञ्चरिष्यन्ति निर्भयाः ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ९ ॥
तावत्सर्वपुराणानि प्रगर्जन्ति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ १० ॥
तावत्सर्वाणि तीर्थानि विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ११ ॥
तावत्सर्वे मुधा मंत्री विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १२ ॥
तावत्सर्वाणि क्षेत्राणि विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १३ ॥
तावत्सर्वाणि पीठानि विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १४ ॥
तावत्सर्वाणि दानानि विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १५ ॥
तावत्सर्वे च ते देवा विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १६ ॥
तावत्सर्वे च सिद्धान्ता विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १७ ॥
अस्य शैवपुराणस्य कीर्तनश्रवणाद् द्विजाः ।
फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः ॥ १८ ॥
तथापि तस्य माहात्म्यं वक्ष्ये किञ्चित्तु वोऽनघाः ।
चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम ॥ १९ ॥
एतच्छिवपुराणं हि श्लोकं श्लोकार्धमेव च ।
यः पठेद्‌भक्तिसंयुक्तः स पापान्मुच्यते क्षणात् ॥ २० ॥
एतच्छिवपुराणं हि यः प्रत्यहमतन्द्रितः ।
यथाशक्ति पठेद्‌भक्त्या स जीवन्मुक्त उच्यते ॥ २१ ॥
एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा ।
दिने दिनेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥ २२ ॥
एतच्छिवपुराणं यः साधारणपदेच्छया ।
अन्यतः शृणुयात् सोऽपि मत्तो मुच्येत पातकात् ॥ २३ ॥
एतच्छिवपुराणं यो नमस्कुर्याददूरतः ।
सर्वदेवार्चनफलं स प्राप्नोति न संशयः ॥ २४ ॥
एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् ।
यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ॥ २५ ॥
अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च ।
यत्फलं दुर्लभं लोके तत्फलं तस्य सम्भवेत् ॥ २६ ॥
एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः ।
शिवभक्तसभायां यो व्याकरोति स उत्तमः ॥ २७ ॥
प्रत्यक्षरं तु गायत्रीपुरश्चर्याफलं लभेत् ।
इह भुक्त्वाखिलान् कामानन्ते निर्वाणतां व्रजेत् ॥ २८ ॥
उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः ।
यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् ॥ २९ ॥
कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः ।
आत्मतुल्यधनं सूर्यग्रहणे सर्वतोमुखे ॥ ३० ॥
विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते ।
तत्फलं सम्भवेत्तस्य सत्यं सत्यं न संशयः ॥ ३१ ॥
एतच्छिवपुराणं हि गायते योऽप्यहर्निशम् ।
आज्ञां तस्य प्रतीक्षेरन् देवा इन्द्रपुरोगमाः ॥ ३२ ॥
एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः ।
यद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत् ॥ ३३ ॥
समाहितः पठेद्यस्तु तत्र श्रीरुद्रसंहिताम् ।
स ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेव दिनैर्भवेत् ॥ ३४ ॥
तां रुद्रसंहितां यस्तु भैरवप्रतिमान्तिके ।
त्रिः पठेत् प्रत्यहं मौनी स कामानखिलांल्लभेत् ॥ ३५ ॥
तां रुद्रसंहितां यस्तु सम्पठेद्‍वटबिल्वयोः ।
प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ॥ ३६ ॥
कैलाससंहिता तत्र ततोऽपि परमा स्मृता ।
ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ॥ ३७ ॥
कैलाससंहितायास्तु माहात्म्यं वेत्ति शङ्‌करः ।
कृत्स्नं तदर्धं व्यासश्च तदर्धं वेद्म्यहं द्विजाः ॥ ३८ ॥
तत्र किञ्चित् प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते ।
यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ॥ ३९ ॥
न नाशयति यत्पापं सा रौद्री संहिता द्विजाः ।
तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा ॥ ४० ॥
शिवेनोपनिषत्सिन्धुमन्थनोत्पादितां मुदा ।
कुमारायार्पितां तां वै सुधां पीत्वाऽमरो भवेत् ॥ ४१ ॥
ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः ।
मासमात्रं संहितां तां पठित्वा मुच्यते ततः ॥ ४२ ॥
दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसम्भवम् ।
पापं सकृत्कीर्तनेन संहिता सा विनाशयेत् ॥ ४३ ॥
शिवालये बिल्ववने संहितां तां पठेत्तु यः ।
स यत्फलमवाप्नोति तद्वाचोऽपि न गोचरे ॥ ४४ ॥
संहितां तां पठन्भक्त्या यः श्राद्धे भोजयेद् द्विजान् ।
तस्य ये पितरः सर्वे यान्ति शम्भोः परं पदम् ॥ ४५ ॥
चतुर्दश्यां निराहारो यः पठेत् संहितां च ताम् ।
बिल्वमूले शिवः साक्षात्स देवैश्च प्रपूज्यते ॥ ४६ ॥
अप्यन्याः संहितास्तत्र सर्वकामफलप्रदा ।
उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते ॥ ४७ ॥
तदिदं शैवमाख्यातं पुराणं वेदसम्मितम् ।
निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसम्मितम् ॥ ४८ ॥
विद्येशं च तथा रौद्रं वैनायकमथौमिकम् ।
मात्रं रुद्रैकादशकं कैलासं शतरुद्रकम् ॥ ४९ ॥
कोटिरुद्रसहस्राद्यं कोटिरुद्रं तथैव च ।
वायवीयं धर्मसञ्ज्ञं पुराणमिति भेदतः ॥ ५० ॥
संहिता द्वादशमिता महापुण्यतरा मता ।
तासां संख्यां ब्रुवे विप्राः शृणुतादरतोऽखिलम् ॥ ५१ ॥
विद्येशं दशसाहस्रं रुद्रं वैनायकं तथा ।
औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ॥ ५२ ॥
त्रयोदशसहस्रं हि रुद्रैकादशकं द्विजाः ।
षट्सहस्रं च कैलासं शतरुद्रं तदर्धकम् ॥ ५३ ॥
कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् ।
सहस्रकोटिरुद्राख्यमुदितं ग्रंथसंख्यया ॥ ५४ ॥
वायवीयं खाब्धिशतं धर्मं रविसहस्रकम् ।
तदेवं लक्षसंख्याकं शैवं संख्याविभेदतः ॥ ५५ ॥
व्यासेन तत्तु सङ्‌क्षिप्तं चतुर्विंशत्सहस्रकम् ।
शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ॥ ५६ ॥
शिवेन कल्पितं पूर्वं पुराणं ग्रन्थसंख्यया ।
शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम् ॥ ५७ ॥
व्यस्तेऽष्टादशधा चैव पुराणे द्वापरादिषु ।
चतुर्लक्षेण सङ्‌क्षिप्ते कृते द्वैपायनादिभिः ॥ ५८ ॥
प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् ।
श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम् ॥ ५९ ॥
विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका ।
तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ ६० ॥
पञ्चमी चैवमौम्याख्या षष्ठी कैलाससंज्ञिका ।
सप्तमी वायवीयाख्या सप्तैवं संहिता मताः ॥ ६१ ॥
ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् ।
वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ॥ ६२ ॥
एतच्छिवपुराणं हि सप्तसंहितमादरात् ।
परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ॥ ६३ ॥
श्रुतिस्मृतिपुराणेतिहासागमशतानि च ।
एतच्छिवपुराणस्य नार्हन्त्यल्पां कलामपि ॥ ६४ ॥
शैवं पुराणममलं शिवकीर्तितं त-
     द्‌व्यासेन शैवप्रवणेन च सङ्‌गृहीतम् ।
सङ्‌क्षेपतः सकलजीवगुणोपकारं
     तापत्रयघ्नमतुलं शिवदं सतां हि ॥ ६५ ॥
विकैतवो धर्म इह प्रगीतो
     वेदान्तविज्ञानमयः प्रधानः ।
अमत्सरान्तर्बुधवेद्यवस्तु
     सत्संकॢप्तमंत्रौघत्रिवर्गयुक्तम् ॥ ६६ ॥
शैवं पुराणतिलकं खलु सत्पुराणं
     वेदान्तवेदविलसत्परवस्तुगीतम् ।
यो वै पठेच्च शृणुयात् परमादरेण
     शम्भुप्रियः स हि लभेत्परमां गतिं वै ॥ ६७ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
मुनिप्रश्नोत्तरवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥ 

Tuesday, January 8, 2019

॥ विद्येश्वरसंहिता ॥ प्रथमोऽध्यायः ॥

विद्येश्वरसंहितायां प्रथमोऽध्यायः

मुनिप्रश्नोत्तरवर्णनम्



आद्यन्तमङ्‍गलमजातसमानभाव-
     मार्यं तमीशमजरामरमात्मदेवम् ।
पञ्चाननं प्रबलपञ्चविनोदशीलं
     सम्भावये मनसि शङ्‍करमम्बिकेशम् ॥ १ ॥

व्यास उवाच
धर्मक्षेत्रे महाक्षेत्रे गङ्‌गाकालिन्दिसङ्‌गमे ।
प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि ॥ १ ॥
मुनयः शंसितात्मानः सत्यव्रतपरायणाः ।
महौजसो महाभागा महासत्रं वितेनिरे ॥ २ ॥
तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः ।
आजगाम मुनीन् द्रष्टुं सूतः पौराणिकोत्तमः ॥ ३ ॥
तं दृष्ट्‍वा सूतमायान्तं हर्षिता मुनयस्तदा ।
चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि ॥ ४ ॥
ततो विनयसंयुक्ता प्रोचुः साञ्जलयश्च ते ।
सुप्रसन्ना महात्मानः स्तुतिं कृत्वा यथाविधि ॥ ५ ॥
रोमहर्षण सर्वज्ञ भवान्वै भाग्यगौरवात् ।
पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान् ॥ ६ ॥
तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ।
रत्‍नानामुरुसाराणां रत्‍नाकर इवार्णवः ॥ ७ ॥
यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते ।
न त्वयाऽविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥ ८ ॥
त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः ।
कुर्वन्किमपि नः श्रेयो न वृथा गन्तुमर्हसि ॥ ९ ॥
तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् ।
न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः ॥ १० ॥
इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते ।
तद्‌रहस्यमपि ब्रूहि यदि तेऽनुग्रहो भवेत् ॥ ११ ॥
प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः ।
दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः ॥ १२ ॥
परापवादनिरताः परद्रव्याभिलाषिणः ।
परस्त्रीसक्तमनसः परहिंसापरायणाः ॥ १३ ॥
देहात्मदृष्टयो मूढा नास्तिकाः पशुबुद्धयः ।
मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिङ्‌कराः ॥ १४ ॥
विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः ।
धनार्जनार्थमभ्यस्तविद्यामदविमोहिताः ॥ १५ ॥
त्यक्तस्वजातिकर्माणः प्रायशःपरवञ्चकाः ।
त्रिकालसन्ध्यया हीना ब्रह्मबोधविवर्जिताः ॥ १६ ॥
अदयाः पण्डितम्मन्याः स्वाचारव्रतलोपकाः ।
कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः ॥ १७ ॥
क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः ।
असत्सङ्‌गाः पापरता व्यभिचारपरायणाः ॥ १८ ॥
अशूरा अरणप्रीताः पलायनपरायणाः ।
कुचौरवृत्तयः शूद्राः कामकिङ्‌करचेतसः ॥ १९ ॥
शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः ।
शरण्यावनहीनाश्च कामिन्यूतिमृगाः सदा ॥ २० ॥
प्रजापालनसद्धर्मविहीना भोगतत्पराः ।
प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा ॥ २१ ॥
वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः ।
कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः ॥ २२ ॥
गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः ।
अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः ॥ २३ ॥
कामिनीजारभावेषु सुरता मलिनाशयाः ।
लोभमोहविचेतस्काः पूर्तादिषु वृषोज्झिताः ॥ २४ ॥
तद्वच्छूद्राश्च ये केचिद्‌ब्राह्मणाचारतत्पराः ।
उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः ॥ २५ ॥
कर्तारस्तपसां भूयो द्विजतेजोपहारकाः ।
शिश्वल्पमृत्युकाराश्च मंत्रोच्चारपरायणाः ॥ २६ ॥
शालग्रामशिलादीनां पूजका होमतत्पराः ।
प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः ॥ २७ ॥
धनवन्तः कुकर्माणो विद्यावन्तो विवादिनः ।
आख्यानोपासनाधर्मवक्तारो धर्मलोपकाः ॥ २८ ॥
सुभूपाकृतयो दम्भाः सुदातारो महामदाः ।
विप्रादीन् सेवकान् मत्वा मन्यमाना निजं प्रभुम् ॥ २९ ॥
स्वधर्मरहिता मूढाः सङ्‌कराः क्रूरबुद्धयः ।
महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः ॥ ३० ॥
सुकुलीनान्निजान् मत्वा चतुर्वर्णैर्विवर्तनाः ।
सर्ववर्णभ्रष्टकरा मूढाः सत्कर्मकारिणः ॥ ३१ ॥
स्त्रियश्च प्रायशो भ्रष्टा भर्त्रवज्ञानकारिकाः ।
श्वशुरद्रोहकारिण्यो निर्भया मलिनासनाः ॥ ३२ ॥
कुहावभावनिरताः कुशीलाः स्मरविह्वलाः ।
जारसङ्‌गरता नित्यं स्वस्वामिविमुखास्तथा ॥ ३३ ॥
तनया मातृपित्रोश्च भक्तिहीना दुराशयाः ।
अविद्यापाठका नित्यं रोगग्रसितदेहकाः ॥ ३४ ॥
एतेषां नष्टबुद्धीनां स्वधर्मत्यागशीलिनाम् ।
परलोकेऽपीह लोके कथं सूत गतिर्भवेत् ॥ ३५ ॥
इति चिन्ताकुलं चित्तं जायते सततं हि नः ।
परोपकारसदृशो नास्ति धर्मोऽपरः खलु ॥ ३६ ॥
लघूपायेन येनैषां भवेत्सद्योऽघनाशनम् ।
सर्वसिद्धान्तवित्त्वं हि कृपया तद्वदाधुना ॥ ३७ ॥
व्यास उवाच
इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ।
मनसा शङ्‌करं स्मृत्वा सूतः प्रोवाच तान् मुनीन् ॥ ३८ ॥
इति श्रीशैवे महापुराणे विद्येश्वरसंहितायां
मुनिप्रश्नोत्तरवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥

Monday, January 7, 2019

॥ श्रीशिवपुराणमाहात्म्यम् ॥ सप्तमोऽध्यायः ॥

श्रीशिवपुराणमाहात्म्ये  सप्तमोऽध्यायः

शिवपुराणश्रवणव्रतिनां विधिनिषेधावक्तृपूजनवर्णनम्



शौनक उवाच -
सूत सूत महाप्राज्ञ धन्यस्त्वं शैवपुङ्‌गव ।
श्रावितेयं कथाऽस्माकमद्भुता च शुभावहा ॥ १ ॥
पुंसां शिवपुराणस्य श्रवणव्रतिनां मुने ।
सर्वलोकहितार्थाय दयया नियमं वद ॥ २ ॥
सूत उवाच -
नियमं शृणु सद्‌भक्त्या पुंसां तेषां च शौनक ।
नियमात्सत्कथां श्रुत्वा निर्विघ्नफलमुत्तमम् ॥ ३ ॥
पुंसां दीक्षाविहीनानां नाधिकारः कथाश्रवे ।
श्रोतुकामैरतो वक्तुर्दीक्षा ग्राह्या च तैर्मुने ॥ ४ ॥
ब्रह्मचर्यमधःसुप्तिः पत्रावल्यां च भोजनम् ।
कथासमाप्तौ भुक्तिं च कुर्यान्नित्यं कथाव्रती ॥ ५ ॥
आसमाप्तपुराणं हि समुपोष्य सुशक्तिमान् ।
शृणुयाद्‌भक्तितः शुद्धः पुराणं शैवमुत्तमम् ॥ ६ ॥
घृतपानं पयःपानं कृत्वा वा शृणुयात्सुखम् ।
फलाहारेण वा श्राव्यमेकभुक्तं न वा हि तत् ॥ ७ ॥
एकवारं हविष्यान्नं भुञ्ज्यादेतत् कथाव्रती ।
सुखसाध्यं यथा स्यात्तच्छ्रवणं कार्यमेव च ॥ ८ ॥
भोजनं सुकरं मन्ये कथासु श्रवणप्रदम् ।
नोपवासो वरश्चेत् स्यात् कथाश्रवणविघ्नकृत् ॥ ९ ॥
गरिष्ठं द्विदलं दग्धं निष्पावांश्च मसूरिकाम् ।
भावदुष्टं पर्युषितं जग्ध्वा नित्यं कथाव्रती ॥ १० ॥
वार्ताकं च कलिन्द च पिचण्डं मूलकं तथा ।
मूष्माण्डं नालिकेरं च मूलं जग्ध्वा कथाव्रती ॥ ११ ॥
पलाण्डु लशुनं हिङ्‌गुं गृञ्जनं मादकं हि तत् ।
वस्तून्यामिषसंज्ञानि वर्जयेद्यः कथावती ॥ १२ ॥
कामादिषड्विकारं च द्विजानां च विनिन्दनम् ।
पतिव्रताऽसतां निन्दां वर्जयेद्यः कथाव्रती ॥ १३ ॥
रजस्वलां न पश्येच्च पतितान्न वदेत्कथाम् ।
द्विजद्विषो वेदवर्ज्यान्न वदेद्यः कथव्रती ॥ १४ ॥
सत्यं शौचं दयां मौनमार्जवं विनयं तथा
औदार्यं मनसश्चैव कुर्यान्नित्यं कथाव्रती ॥ १५ ॥
निष्कामश्च सकामश्च नियमाच्छ्रुणुयात्कथाम् ।
सकामः काममाप्नोति निष्कामो मोक्षमाप्नुयात् ॥ १६ ॥
दरिद्रश्च क्षयी रोगी पापी निर्भाग्य एव च ।
अनपत्योऽपि पुरुषः शृणुयात् सत्कथामिमाम् ॥ १७ ॥
काकवन्ध्यादयः सप्तविधा अपि खलस्त्रियः ।
स्रवद्‌गर्भा च या नारी ताभ्यां श्राव्या कथा परा ॥ १८ ॥
सर्वैश्च श्रवणं कार्यं स्त्रीभिः पुम्भिश्च यत्नतः ।
एतच्छिवपुराणस्य विधिना च कथां मुने ॥ १९ ॥
एतच्छिवपुराणस्य पारायणदिनानि वै ।
अत्युत्तमानि बोध्यानि कोटियज्ञसमानि च ॥ २० ॥
एतेषु विधिना दत्तं यदल्पमपि वस्तु हि ।
दिवसेषु वरिष्ठेषु तदक्षय्यफलं लभेत् ॥ २१ ॥
एवं कृत्वा व्रतविधिं श्रुत्वेमां परमां कथाम् ।
परानन्तयुतः श्रीमानुद्यापनमथाचरेत् ॥ २२ ॥
एतदुद्यापनविधिश्चतुर्दश्याः समो मतः ।
कार्यस्तद्वद्धनाढ्यैश्च तदुक्तफलकाङ्‌क्षिभिः ॥ २३ ॥
अकिञ्चनेषु भक्तेषु प्रायो नोद्यापनग्रहः ।
श्रवणेनैव पूतास्ते निष्कामाः शाम्भवा मताः ॥ २४ ॥
एवं शिवपुराणस्य पारायणमखोत्सवे ।
समाप्ते श्रोतृभिर्भक्त्या पूजा कार्या प्रयत्नतः ॥ २५ ॥
शिवपूजनवत्सम्यक्पुस्तकस्य पुरो मुने ।
पूजा कार्या सुविधिना वक्तुश्च तदनन्तरम् ॥ २६ ॥
पुस्तकाच्छादनार्थं हि नवीनं चासनं शुभम् ।
समर्चयेद् दृढं दिव्यं बन्धनार्थं च सूत्रकम् ॥ २७ ॥
पुराणार्थं प्रयच्छन्ति ये सूत्रं वसनं नवम् ।
योगिनो ज्ञानसम्पन्नास्ते भवन्ति भवे भवे ॥ २८ ॥
वक्त्रे दद्यान्महार्हाणि वस्तूनि विविधानि च ।
वस्त्रभूषणपात्राणि द्रव्यं बहु विशेषतः ॥ २९ ॥
आसनार्थं प्रयच्छन्ति पुराणस्य च ये नराः ।
कम्बलाजिनवासांसि मञ्चं फलकमेव च ॥ ३० ॥
स्वर्गलोकं समासाद्य भुक्त्वा भोगान्यथेप्सितान् ।
स्थित्वा ब्रह्मपदे कल्पं यान्ति शैवपदं ततः ॥ ३१ ॥
एवं कृत्वा विधानेन पुस्तकस्य प्रपूजनम् ।
वक्तुश्च भुवि शार्दूल महोत्सवपुरःसरम् ॥ ३२ ॥
सहायार्थं स्थापितस्य पण्डितस्य प्रपूजनम् ।
कुर्यात्तदनुसारेण किञ्चिदूनं धनादिभिः ॥ ३३ ॥
समागतेभ्यो विप्रेभ्यो दद्यादन्नं धनादिकम् ।
महोत्सवः प्रकर्तव्यो गीतैर्वाद्यैश्च नर्तनैः ॥ ३४ ॥
विरच्छ भवेच्छ्रोता परेऽहनि विशेषतः ।
गीता वाच्या शिवेनोक्ता रामचन्द्राय या मुने ॥ ३५ ॥
गृहस्थश्चेद्‌भवेच्छ्रोता कर्तव्यस्तेन धीमता ।
होमः शुद्धेन हविषा कर्मणस्तस्य शान्तये ॥ ३६ ॥
रुद्रसंहितया होमः प्रतिश्लोकेन वा मुने ।
गायत्र्यास्तन्मयत्वाच्च पुराणस्यास्य तत्त्वतः ॥ ३७ ॥
अथवा मूलमन्त्रेण पञ्चवर्णेन शैवतः ।
होमाशक्तो बुधो हौम्यं हविर्दद्याद्‌द्विजाय तत् ॥ ३८ ॥
दोषयोः प्रशमार्थं च न्यूनताधिकताख्ययोः ।
पठेच्च शृणुयाद्‌भक्त्या शिवनामसहस्रकम् ॥ ३९ ॥
तेन स्यात्सफलं सर्वं सुफलं नात्र संशयः ।
यतो नास्त्यधिकं त्वस्मात्त्रैलोक्ये वस्तु किञ्जन ॥ ४० ॥
एकादशमितान्विप्रान् भोजयेन्मधुपायसैः ।
दद्यात्तेभ्यो दक्षिणां च व्रतपूर्णत्वसिद्धये ॥ ४१ ॥
शक्तौ पलत्रयमितस्वर्णेन सुन्दरं मुने ॥
सिंहं विधाय तत्रास्य पुराणस्य शुभाक्षरम् ॥ ४२ ॥
लेखितं लिखितं वापि संस्थाप्य विधिना पुमान् ।
सप्पूज्य वाहनाद्यैश्च ह्युपचारैः सदक्षिणम् ॥ ४३ ॥
वस्त्रभूषणगन्धाद्यैः पूजिताय यतात्मने ।
आचार्याय सुधीर्दद्याच्छिवसन्तोषहेतवे ॥ ४४ ॥
तेन दानप्रभावेण पुराणस्यास्य शौनक ।
सम्माप्यानुग्रह शैवं मुक्तः स्याद्‌भवबन्धनात् ॥ ४५ ॥
एवं कृते विधाने च श्रीमच्छिवपुराणकम् ।
सम्पूर्णफलदं स्याद्वै भुक्तिमुक्तिप्रदायकम् ॥ ४६ ॥
इति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।
श्रीमच्छिवपुराणस्य माहात्म्यं सर्वकामदम् ॥ ४७ ॥
श्रीमच्छिवपुराणं तु पुराणतिलकं स्मृतम् ।
महच्छिवप्रियं रम्यं भवरोगनिवारणम् ॥ ४८ ॥
ये जन्मभाजः खलु जीवलोके
     ये वै सदा ध्यानरताः शिवस्य ।
वाणी गुणान्स्तौति कथां शृणोति
     श्रोत्रद्वयं ते भवमुत्तरन्ति ॥ ४९ ॥
सकलगुणविभेदैर्नित्यमस्पष्टरूपं
     जगति च बहिरन्तर्भासमानं महिम्‍ना ।
मनसि च बहिरन्तर्वाङ्‌मनोवृत्तिरूपं
     परमशिवमनन्तानन्दसान्द्रं प्रपद्ये ॥ ५० ॥
इति श्रीस्कान्दे महापुराणे सनत्कुमारसंहितायां
श्रीशिवपुराणश्रवणव्रतिनां विधिनिषेधपुस्तकवक्तृपूजनवर्णनं
नाम सप्तमोऽध्यायः ॥ ७ ॥
॥ समाप्तमिदं श्रीशिवपुराणमाहाम्यम् ॥

Sunday, January 6, 2019

॥ श्रीशिवपुराणमाहात्म्यम् ॥ षष्ठोऽध्यायः ॥

श्रीशिवपुराणमाहात्म्ये  षष्ठोऽध्यायः

शिवपुराणश्रवणविधिः



सूत सूत महाप्राज्ञ व्यासशिष्य नमोऽस्तु ते ।
धन्यस्त्वं शैववर्योऽसि वर्णनीयमहद्गुणः ॥ १ ॥
श्रीमच्छिवपुराणस्य श्रवणस्य विधिं वद ।
येन सर्वं लभेच्छ्रोता सम्पूर्णं फलमुत्तमम् ॥ २ ॥
सूत उवाच -
अथ ते सम्प्रवक्ष्यामि सम्पूर्णफलहेतवे ।
विधिं शिवपुराणस्य शौनक श्रवणे मुने ॥ ३ ॥
दैवज्ञं च समाहूय सन्तोष्य च जनान्वितः ।
मुहूर्तं शोधयेच्छुद्धं निर्विघ्नेन समाप्तये ॥ ४ ॥
वार्ता प्रेष्या प्रयत्नेन देशे देशे च सा शुभा ।
भविष्यति कथा शैवी आगन्तव्यं शुभार्थिभिः ॥ ५ ॥
दूरे हरिकथाः केचिद्‌‍दूरे शङ्‌करकीर्तनाः ।
स्त्रियः शूद्रादयो ये च बोधस्तेषां भवेद्यतः ॥ ६ ॥
देशे देशे शाम्भवा ये कीर्तनश्रवणोत्सुकाः ।
तेषामानयनं कार्यं तत्प्रकारार्थमादरात् ॥ ७ ॥
भविष्यति समाजोऽत्र साधूनां परमोत्सवः ।
पारायणे पुराणस्य शैवस्य परमाद्भुतः ॥ ८ ॥
श्रीमच्छिवपुराणाह्वरसपानाय चादरात् ।
आयान्त्वरं भवन्तश्च कृपया प्रेमतत्पराः ॥ ९ ॥
नावकाशो यदि प्रेम्णागन्तव्यं दिनमेककम् ।
सर्वथाऽऽगमनं कार्यं दुर्लभा च क्षणस्थितिः ॥ १० ॥
तेषामाह्वानमेवं हि कार्यं सविनयं मुदा ।
आगतानां च तेषां हि सर्वथा कार्य आदरः ॥ ११ ॥
शिवालये च तीर्थे वा वने वापि गृहेऽथवा ।
कार्यं शिवपुराणस्य श्रवणस्थलमुत्तमम् ॥ १२ ॥
कार्यं संशोथनं भूमेर्लेपनं धातुमण्डनम् ।
विचित्रा रचना दिव्या महोत्सवपुरःसरम् ॥ १३ ॥
गृहोपस्करमुद्धृत्य निखिलं तदयोग्यकम् ।
एकान्ते गृहकोणे चादृश्ये यत्नान्निवेशयेत् ॥ १४ ॥
कर्तव्यो मण्डपोऽत्युच्चैः कदलीस्तम्भमण्डितः ।
फलपुष्पादिभिः सम्यग्विष्वग्वैतानराजितः ॥ १५ ॥
चतुर्द्दिक्षु ध्वजारोपः सपताकः सुशोभनः ।
सुभक्तिः सर्वथा कार्या सर्वानन्दविधायिनी ॥ १६ ॥
सङ्‌कल्प्यमासनं दिव्यं शङ्‌करस्य परात्मनः ।
वक्तुश्चापि तथा दिव्यमासनं सुखसाधनम् ॥ १७ ॥
श्रोतॄणां कल्पनीयानि सुस्थलानि यथार्हतः ।
अन्येषां च स्थलान्येव साधारणतया मुने ॥ १८ ॥
विवाहे यादृशं चित्ते तादृशं कार्यमेव हि ।
अन्या चिन्ता विनिर्वार्य्या सर्वा शौनक लौकिकी ॥ १९ ॥
उदङ्मुखो भवेद्‌वक्ता श्रोता प्राग्वदनस्तथा ।
व्युत्क्रमः पादयोर्ज्ञेयो विरोधो नास्ति कश्चन ॥ २० ॥
अथवा पूर्वदिग्ज्ञेया पूज्यपूजकमध्यतः ।
अथवा सम्मुखं वक्तुः श्रोतॄणामाननं स्मृतम् ॥ २ १ ॥
व्यासासनसमारूढो यदा पौराणिको द्विजः ।
असमाप्तौ प्रसङ्‌गस्य नमस्कुर्यान्न कस्यचित् ॥ २२ ॥
बालो युवाऽथ वृद्धो वा दरिद्रो वाऽपि दुर्बलः ।
पुराणज्ञः सदा वन्द्यः पूज्यश्च सुकृतार्थिभिः ॥ २३ ॥
नीचबुद्धिं न कुर्वीत पुराणज्ञे कदाचन ।
यस्य वक्त्रोद्‌गता वाणी कामधेनुः शरीरिणाम् ॥ २४ ॥
गुरुवत्सन्ति बहवो जन्मतो गुणतश्च वै ।
परो गुरुः पुराणज्ञस्तेषां मध्ये विशेषतः ॥ २५ ॥
भवकोटिसहस्रेषु भूत्वा भूत्वाऽवसीदताम् ।
यो ददाति परां मुक्तिं कोऽन्यस्तस्मात्परो गुरुः ॥ २६ ॥
पुराणज्ञः शुचिर्दक्षः शान्तो विजितमत्सरः ।
साधुः कारुण्यवान्वाग्मी वदेत्पुण्यकथामिमाम् ॥ २७ ॥
आसूर्योदयमारभ्य सार्द्धद्विप्रहरान्तकम् ।
कथा शिवपुराणस्य वाच्या सम्यक् सुधीमता ॥ २८ ॥
ये धूर्ता ये च दुर्वृत्ता ये चान्ये विजिगीषवः ।
तेषां कुटिलवृत्तीनामग्रे नैव वदेत्कथाम् ॥ २९ ॥
न दुर्जनसमाकीर्णे न तु दस्युसमावृते ।
देशे न धूर्तसदने वदेत्पुण्यकथामिमाम् ॥ ३० ॥
कथाविरामः कर्तव्यो मध्याह्ने हि मुहूर्त्तकम् ।
मलमूत्रोत्सर्जनार्थं तत्कथाकीर्तनान्नरैः ॥ ३१ ॥
वक्त्रा क्षौरं हि सङ्‌कार्यं दिनादर्वाग्व्रताप्तये ।
कार्यं सङ्‌क्षेपतो नित्यकर्म सर्वं प्रयत्नतः ॥ ३२ ॥
वक्तुः पार्श्वे सहायार्थमन्यः स्थाप्यस्तथाविधः ।
पण्डितः संश्यच्छेत्ता लोकबोधनतत्परः ॥ ३३ ॥
कथाविघ्नविनाशार्थं गणनाथं प्रपूजयेत् ।
कथाधीशं शिवं भकथा पुस्तकं च विशेषतः ॥ ३४ ॥
कथां शिवपुराणस्य शृणुयादादरात्सुधीः ।
श्रोता सुविधिना शुद्धः शुद्धचित्तः प्रसन्नधीः ॥ ३५ ॥
अनेककर्मविभ्रान्तः कामादिषड्विकारवान् ।
स्त्रैणः पाखण्डवादी च वक्ता श्रोता न पुण्यभाक् ॥ ३६ ॥
लोकचिन्तां धनागारपुत्रचिन्तां व्युदस्य च ।
कथाचित्तः शुद्धमतिः स लभेत् फलमुत्तमम् ॥ ३७ ॥
श्रद्धाभक्तिसमायुक्तो नान्यकार्येषु लालसः ।
वाग्यताः शुचयोऽव्यग्राः श्रोतारः पुण्यभागिनः ॥ ३८
अभक्ता ये कथां पुण्यां शृण्वन्तीमां नराधमाः ।
तेषां श्रवणजं नास्ति फलं दुःखं भवे भवे ॥ ३९ ॥
असम्पूज्य पुराणं ये यथाशक्त्या ह्युपायनैः ।
शृण्वन्तीमां कथां मूढाः स्युर्दरिद्रा न पावनाः ॥ ४० ॥
कथायां कथ्यमानायां गच्छन्त्यन्यत्र ये नराः ।
भोगान्तरे प्रणश्यन्ति तेषां दारादिसम्पदः ॥ ४१ ॥
सोष्णीषमस्तका ये च शृण्वन्तीमां कथां नराः ।
तत्पुत्रश्च प्रजायन्ते पापिनः कुलदूषकाः ॥ ४२ ॥
ताम्बूलं भक्षयन्तो ये शृण्वन्तीमां कथां नराः ।
स्वविष्ठां खादयन्त्येतान्नरके यमकिङ्‌कराः ॥ ४३ ॥
ये च तुङ्‌गासनारूढाः शृण्वन्तीमां कथां नराः ।
भुक्त्वा ते नरकान्सर्वांस्ततः काका भवन्ति हि ॥ ४४ ॥
ये वीराद्यासनारूढाः शृण्वन्तीमां कथां शुभाम् ।
भुक्त्वा ते नरकान् सर्वान्विषवृक्षा भवन्ति वै ॥ ४५ ॥
असम्प्रणम्य वक्तारं कथां शृण्वन्ति ये नराः ।
भुक्त्वा ते नरकान्सर्वान्भवन्त्यर्जुन पादपाः ॥ ४६ ॥
अनातुराः शयाना ये शृण्वन्तीमां कथां नराः ।
भुक्त्वा ते नरकान्सर्वान्भवन्त्यजगरादयः ॥ ४७ ॥
वक्तुः समासनारूढा ये शृण्वन्ति कथामिमाम् ।
गुरुतल्पसमं पापं प्राप्यते नारकैः सदा ॥ ४८ ॥
ये निन्दन्ति च वक्तारं कथां चेमां सुपावनीम् ।
भवन्ति शुनका भुक्त्वा दुःखं जन्मशतं हि ते ॥ ४९ ॥
कथायां वर्तमानायां दुर्वादं ये वदन्ति हि ।
भुक्त्वा ते नरकान्घोरान्भवन्ति गर्दभास्ततः ॥ ५० ॥
कदाचिन्नापि शृण्वन्ति कथामेतां सुपावनीम् ।
भुक्त्वा ते नरकान् घोरान् भवन्ति वनसूकराः ॥ ५१ ॥
कथायां कीर्त्यमानायां विघ्नं कुर्वन्ति ये खलाः ।
कोट्यब्दं नरकान् भुक्त्वा भवन्ति ग्रामसूकराः ॥ ५२ ॥
एवं विचार्य शुद्धात्मा श्रोता वक्तृसुभक्तिमान् ।
कथाश्रवणहेतोर्हि भवेत्प्रीत्योद्यतः सुधीः ॥ ५३ ॥
कथाविघ्नविनाशार्थं गणेशं पूजयेत्पुरा ।
नित्यं सम्पाद्य सङ्‌क्षेपात् प्रायश्चित्तं समाचरेत ॥ ५४ ॥
नवग्रहांश्च सम्पूज्य सर्वतोभद्रदैवतम् ।
शिवपूजोक्तविधिना पुस्तकं तत्समर्चयेत् ॥ ५५ ॥
पूजनान्ते महाभक्त्या करौ बद्ध्वा विनीतकः ।
साक्षाच्छिवस्वरूपस्य पुस्तकस्य स्तुतिं चरेत् ॥ ५६ ॥
श्रीमच्छिवपुराणाख्यः प्रत्यक्षस्त्वं महेश्वरः ।
श्रवणार्थं स्वीकृतोऽसि सन्तुष्टो भव वै मयि ॥ ५७ ॥
मनोरथो मदीयोऽयं कर्तव्यः सफलस्त्वया ।
निर्विघ्नेन सुसम्पूर्णं कथाश्रवणमस्तु मे ॥ ५८ ॥
भवाब्धिमग्नं दीनं मां समुद्धर भवार्णवात् ।
कर्मग्राहगृहीताङ्‌गो दासोऽहं तव शङ्‌कर ॥ । ५९ ॥
एवं शिवपुराणं हि साक्षाच्छिवस्वरूपकम् ।
स्तुत्वा दीनवचः प्रोच्य वक्तुः पूजां समारभेत् ॥ ६० ॥
शिवपूजोक्तविधिना वक्तारं च समर्चयेत् ।
सपुष्पवस्त्रभूषाभिर्धूपदीपादिनाऽर्चयेत् ॥ ६१ ॥
तदग्रे शुद्धचित्तेन कर्तव्यो नियमस्तदा ।
आसमाप्ति यथाशक्त्या धारणीयः सुयत्नतः ॥ ६२ ॥
व्यासरूप प्रबोधाग्र्य शिवशास्त्रविशारद ।
एतत्कथाप्रकाशेन मदज्ञानं विनाशय ॥ ६३ ॥
वरणं पञ्चविप्राणां कार्यं वैकस्य भक्तितः ।
शिवपञ्चार्णमन्त्रस्य जपः कार्यश्च तैः सदा ॥ ६४ ॥
इत्युक्तस्ते मुने भक्त्या कथाश्रवणसद्विधिः ।
श्रोतॄणां चैव भक्तानां किमन्यच्छ्रोतुमिच्छसि ॥ ६५ ॥
इति श्रीस्कान्दे महापुराणे शिवपुराणमाहाम्ये
श्रवणविधिवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥

Saturday, January 5, 2019

॥ श्रीशिवपुराणमाहात्म्यम् ॥ पञ्चमोऽध्यायः ॥

श्रीशिवपुराणमाहात्म्ये  पञ्चमोऽध्यायः

बिन्दुगसद्‌गतिः



शौनक उवाच -
सूत सूत महाभाग धन्यस्त्वं शिवसक्तधीः ।
श्रावितेयं कथास्माकमद्‌भुता भक्तिवर्द्धिनी ॥ १ ॥
तत्र गत्वा किं चकार चञ्चुला प्राप्तसद्‌गतिः ।
तत्त्वं वद विशेषेण तत्पतेश्च महामते ॥ २ ॥
सूत उवाच -
सा कदाचिदुमां देवीमुपगम्य प्रणम्य च ।
सुतुष्टाव करौ बद्ध्वा परमानन्दसम्प्लुता ॥ ३ ॥
चञ्चुलोवाच -
गिरिजे स्कन्दमातस्त्वं सेविता सर्वदा नरैः ।
सर्वसौख्यप्रदे शम्भुप्रिये ब्रह्यस्वरूपिणि ॥ । ४ ॥
विष्णुब्रह्मादिभिः सेव्या सगुणा निर्गुणापि च ।
त्वमाद्या प्रकृतिः सूक्ष्मा सच्चिदानन्दरूपिणी ॥ ५ ॥
सष्टिस्थितिलयकरी त्रिगुणा त्रिसुरालया ।
ब्रह्मविष्णुमहेशानां सुप्रतिष्ठाकरा परा ॥ ६ ॥
सूत उवाच
इति स्तुत्वा महेशीं तां चञ्चुला प्राप्तसद्‌गतिः ।
विरराम नतस्कन्धा प्रेमपूर्णाश्रुलोचना ॥ ७ ॥
ततः सा करुणाविष्टा पार्वती शङ्‌करप्रिया ।
तामुवाच महाप्रीत्या चञ्चुलां भक्तवत्सला ॥ ८ ॥
पार्वत्युवाच -
चञ्चुले सखि सुप्रीतानया स्तुतास्मि सुन्दरि ।
किं याचसे वरं ब्रूहि नादेयं विद्यते तव ॥ ९ ॥
सूत उवाच -
इत्युक्ता सा गिरिजया चञ्चुला सुप्रणम्य ताम् ।
पर्यपृच्छत सुप्रीत्या साञ्जलिर्नतमस्तका ॥ १० ॥
चञ्चुलोवाच -
मम भर्ताऽधुना क्वाऽऽस्ते नैव जानामि तद्‌गतिम् ।
तेन युक्ता यथाऽहं वै भवामि गिरिजेऽनघे ॥ ११ ॥
तथैव कुरु कल्याणि कृपया दीनवत्सले ।
महादेवि महेशानि भर्ता मे वृषलीपतिः ।
मत्तः पूर्वं मृतः पापी न जाने कां गतिं गतः ॥ १२ ॥
सूत उवाच -
इत्याकर्ण्य वचस्तस्याश्चञ्चुलाया हि पार्वती ।
प्रत्युवाच सुसम्प्रीत्या गिरिजा नयवत्सला ॥ १३ ॥
गिरिजोवाच -
सुते भर्ता बिन्दुगाह्वो महापापी दुराशयः ।
वेश्याभोगी महामूढो मृत्वा स नरकं गतः ॥ १४ ॥
भुक्त्वा नरकदुःखानि विविधान्यमिताः समाः ।
पापशेषेण पापात्मा विन्ध्ये जातः पिशाचकः ॥ १५ ॥
इदानीं स पिशाचोऽस्ति नानाक्लेशसमन्वितः ।
तत्रैव वातभुग्दुष्टः सर्वकष्टवहः सदा ॥ १६ ॥
सूत उवाच -
इति गौर्या वचः श्रुत्वा चञ्चुला सा शुभव्रता ।
पतिदुःखेन महता दुःखिताऽऽसीत्तदा किल ॥ १७ ॥
समाधाय ततश्चित्तं सुप्रणम्य महेश्वरीम् ।
पुनः पप्रच्छ सा नारी हृदयेन विदूयता ॥ १८ ॥
चञ्चुलोवाच -
महेश्वरि महादेवि कृपां कुरु ममोपरि ।
समुद्धर पतिं मेऽद्य दुष्टकर्मकरं खलम् ॥ १९ ॥
केनोपायेन मे भर्ता पापात्मा स कुबुद्धिमान् ।
सद्‌गतिं प्राप्नुयाद्देवि तद्वदाशु नमोऽस्तु ते ॥ २० ॥
सूत उवाच -
इत्याकर्ण्य वचस्तस्याः पार्वती भक्तवत्सला ।
प्रत्युवाच प्रसन्नात्मा चञ्चुलां स्वसखीं च ताम् ॥ २१ ॥
पार्वत्युवाच -
शृणुयाद्यदि ते भर्ता पुण्यां शिवकथां पराम् ।
निस्तीर्य दुर्गतिं सर्वां सद्‌गतिं प्राप्नुयादिति ॥ २२ ॥
इति गौर्य्या वचः श्रुत्वाऽमृताक्षरमथादरात् ।
कृताञ्जलिर्नतस्कन्धा प्रणनाम पुनः पुनः ॥ २३ ॥
तत्कथाश्रवणं भर्तुः सर्वपापविशुद्धये ।
सद्‌गतिप्राप्तये चैव प्रार्थयामास तां तदा ॥ २४ ॥
सूत उवाच -
तया मुहुर्मुहुर्नार्या प्रार्थ्यमाना शिवप्रिया ।
गौरी कृपान्वितासीत्सा महेशी भक्तवत्सला ॥ २५ ॥
अथ तुम्बुरुमाहूय शिवसत्कीर्तिगायकम् ।
प्रीत्या गन्धर्वराजं हि गिरिकन्येदमब्रवीत् ॥ २६ ॥
गिरिजोवाच -
हे तुम्बुरोः शिवप्रीत मम मानसकारक ।
सहानया विन्ध्यशैलं भद्रं ते गच्छ सत्वरम् ॥ २७ ॥
आस्ते तत्र महाघोरः पिशाचोऽतिभयङ्‌करः ।
तद्वृत्तं शृणु सुप्रीत्याऽऽदितः सर्वं ब्रवीमि ते ॥ २८ ॥
पुराभवे पिशाचः स बिन्दुगाह्वोऽभवद्‌द्विजः ।
अस्या नार्याः पतिर्दुष्टो मत्सख्या वृषलीपतिः ॥ २९ ॥
स्नानसन्ध्याक्रियाहीनोऽशौचः क्रोधविमूढधीः ।
दुर्भक्षो सज्जनद्वेषी दुष्परिग्रहकारकः ॥ ३० ॥
हिंसकः शस्त्रधारी च सव्यहस्तेन भोजनी ।
दीनानां पीडकः क्रूरः परवेश्मप्रदीपकः ॥ ३१ ॥
चाण्डालाभिरतो नित्यं वेश्याभोगी महाखलः ।
स्वपत्नीत्यागकृत्पापी दुष्टसङ्‌गरतस्तदा ॥ ३२ ॥
तेन वेश्याकुसङ्‌गेन सुकृतं नाशितं महत् ।
वित्तलोभेन महिषी निर्भया जारिणी कृता ॥ ३३ ॥
आमृत्योः स दुराचारी कालेन निधनं गतः ।
ययौ यमपुरं घोरं भोगस्थानं हि पापिनाम् ॥ ३४ ॥
तत्र भुक्त्वा स दुष्टात्मा नरकानि बहूनि च ।
इदानीं स पिशाचोऽस्ति विन्ध्येऽद्रौ पापभुक्खलः ॥
तस्याग्रे परमां पुण्यां सर्वपापविनाशिनीम् ।
दिव्यां शिवपुराणस्य कथाङ्‌कथय यत्नतः ॥ ३६ ॥
द्रुतं शिवपुराणस्य कथाश्रवणतः परात् ।
सर्वपापविशुद्धात्मा हास्यति प्रेततां च सः ॥ ३७ ॥
मुक्तं च दुर्गतेस्तं वै बिन्दुगं त्वं पिशाचकम् ।
मदाज्ञया विमानेन समानय शिवान्तिकम् ॥ ३८ ॥
सूत उवाच -
इत्यादिष्टो महेशान्या गन्धर्वेन्द्रश्च तुम्बुरुः ।
मुमुदेऽतीव मनसि भाग्यं निजमवर्णयत् ॥ ३९ ॥
आरुह्य सुविमानं स सत्या तत्प्रियया सह ।
ययौ विन्ध्याचलं सोऽरं यत्रास्ते नारदप्रियः ॥ ४० ॥
तत्रापश्यत्पिशाचं तं महाकायं महाहनुम् ।
प्रहसन्तं रुदन्तं च वल्गन्तं विकटाकृतिम् ॥ ४१ ॥
बलाज्जग्राह तं पाशैः पिशाचं चातिभीकरम् ।
तुम्बुरुश्शिवसत्कीर्तिगायकश्च महाबली ॥ ४२ ॥
अथो शिवपुराणस्य वाचनार्थं स तुम्बुरुः ।
निश्चित्य रचनां चक्रे महोत्सवसमन्विताम् ॥ ४३ ॥
पिशाचं तारितुं देव्याः शासनात्तुम्बुरुर्गतः ।
विन्ध्यं शिवपुराणं स ह्यद्रिं श्रावयितुं परम् ॥ ४४ ॥
इति कोलाहलो जातः सर्वलोकेषु वै महान् ।
तत्र तच्छ्रवणार्थाय ययुर्देवर्षयो द्रुतम् ॥ ४५ ॥
समाजस्तत्र परमोऽद्‌भुतश्चासीच्छुभावहः ।
तेषां शिवपुराणस्यागतानां श्रोतुमादरात् ॥ ४६ ॥
पिशाचमथ तं पाशैर्बद्ध्वा समुपवेश्य च ।
तुम्बुरुर्वल्लकीहस्तो जगौ गौरीपतेः कथाम् ॥ ४७ ॥
आरभ्य संहितामाद्यां सप्तमीसंहितावधि ।
स्पष्टं शिवपुराणं हि समाहात्म्यं समावदत् ॥ ४८ ॥
श्रुत्वा शिवपुराणं तु सप्तसंहितमादरात् ।
बभुवुः सुकृतार्थास्ते सर्वे श्रोतार एव हि ॥ ४९ ॥
स पिशाचो महापुण्यं श्रुत्वा शिवपुराणकम् ।
विधूय कलुषं सर्वं जहौ पैशाचिकं वपुः ॥ ५० ॥
दिव्यरूपो बभूवाशु गौरवर्णः सितांशुकः ।
सर्वालङ्‌कारदीप्ताङ्‌गस्त्रिनेत्रश्चन्द्रशेखरः ॥ ५१ ॥
दिव्यं दिव्यवपुर्भूत्वा तया स निजकान्तया ।
जगौ स्वयमपि श्रीमांश्चरितं पार्वतीपतेः ॥ ५२ ॥
तद्वधूमिति सन्दृष्ट्‍वा सर्वे देवर्षयश्च ते ।
बभूवुर्विस्मिताश्चित्ते परमानन्दसंयुताः ॥ ५३ ॥
सुकृतार्था महेशस्य श्रुत्वा चरितमद्भुतम् ।
स्वं स्वं धाम ययुः प्रीत्या शंसन्तः शाङ्‌करं यशः ॥ ५४ ॥
बिन्दुगः सोऽपि दिव्यात्मा सुविमानस्थितः सुखी ।
स्वकान्तापार्श्वगः श्रीमाञ्छुशुभेऽतीव खस्थितः ॥ ५५ ॥
अथ गायन्महेशस्य सुगुणान्सुमनोहरान् ।
स तुम्बुरुर्जगामाशु सकान्तः शाङ्‌करं पदम् ॥ ५६ ॥
सुसत्कृतो महेशेन पार्वत्या च स बिन्दुगः ।
स्वगणश्च कृतः प्रीत्या साऽभवद्‌गिरिजासखी ॥ ५७ ॥
तस्मिँल्लोके परानन्दे घनज्योतिषि शाश्वते ।
लब्ध्वा निवासमचलं लभेते परमं सुखम् ॥ ५८ ॥
इत्येतत्कथितं पुण्यमितिहासमघापहम् ।
शिवाशिवपरानन्दं निर्मलं भक्तिवर्द्धनम् ॥ ५९ ॥
य इदं शृणुयाद्‌भक्त्या कीर्तयेद्वा समाहितः ।
स भुक्त्वा विपुलान्भोगानन्ते मुक्तिमवाप्नुयात् ॥ ६० ॥
इति श्रीस्कान्दे महापुराणे शिवपुराणमाहाम्ये
बिन्दुसद्‌गतिवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥

Friday, January 4, 2019

॥ श्रीशिवपुराणमाहात्म्यम् ॥ चतुर्थोऽध्यायः ॥

श्रीशिवपुराणमाहात्म्ये चतुर्थोऽध्यायः

चंचुलायाः सद्‍गतिः



ब्राह्मण उवाच -
दिष्ट्या काले प्रबुद्धासि शिवानुग्रहतो वराम् ।
इमां शिवपुराणस्य श्रुत्वा वैराग्यवत्कथाम् ॥ १ ॥
मा भैषीर्द्विजपत्नि त्वं शिवस्य शरणं व्रज ।
शिवानुग्रहतः सर्वं पापं सद्यो विनश्यति ॥ २ ॥
वक्ष्यामि ते परं वस्तु शिवकीर्तिसमन्वितम् ।
भविष्यति गतिर्येन सर्वदा ते सुखावहा ॥ ३ ॥
सत्कथाश्रवणादेव जाता ते मतिरीदृशी ।
पश्चात्तापान्विता शुद्धा वैराग्यं विषयेषु च ॥ ४ ॥
पश्चात्तापः पापकृतां पापानां निष्कृतिः परा ।
सर्वेषां वर्णितं सद्‌भिः सर्वपापविशोधनम् ॥ ५ ॥
पश्चात्तापेनैव शुद्धिः प्रायश्चित्तं करोति सः ।
यथोपदिष्टं सद्‌भिर्हि सर्वपापविशोधनम् ॥ ६ ॥
प्रायश्चित्तमधीकृत्य विधिवन्निर्भयः पुमान् ।
स याति सुगतिं प्रायः पश्चात्तापी न संशयः ॥ ७ ॥
एतच्छिवपुराणस्य कथाश्रवणतो यथा ।
जायते चित्तशुद्धिर्हि न तथान्यैरुपायतः ॥ ८ ॥
शोध्यमानं दर्पणं हि यथा भवति निर्मलम् ।
तथैतत्कथया चेतो विशुद्धिं यात्यसंशयम् ॥ ९ ॥
विशुद्धे चेतसि शिवो नृणां तिष्ठति साम्बिकः ।
ततो याति विशुद्धात्मा साम्बशम्भोः परं पदम् ॥ १० ॥
अतः सर्वस्य वर्गस्यैतत्कथासाधनं मतम् ।
एतदर्थं महादेवो निर्ममे त्वाग्रहादिमाम् ॥ ११ ॥
कथया सिद्ध्यति ध्यानमनया गिरिजापतेः ।
ध्यानाज्ज्ञानं परं तस्मात्कैवल्यं भवति ध्रुवम् ॥ १२ ॥
असिद्धशङ्‌करध्यानः कथामेव शृणोति यः ।
स प्राप्यान्यभवे ध्यानं शम्भोर्याति परां गतिम् ॥ १३ ॥
एतत्कथाश्रवणतः कृत्वा ध्यानमुमापतेः ।
ते पश्चात्तापिनः पापा बहवः सिद्धिमागताः ॥ १४ ॥
सर्वेषां श्रेयसां बीजं सत्कथाश्रवणं नृणाम् ।
यथावर्त्मसमाराध्यं भवबन्धगदापहम् ॥ १५ ॥
कथाश्रवणतः शम्भोर्मननाच्च ततो हृदा ।
निदिध्यासनतश्चैव चित्तशुद्धिर्भवत्यलम् ॥ १६ ॥
अतो भक्तिर्महेशस्य पुत्राभ्यां भवति ध्रुवम् ।
तदनुग्रहतो दिव्या ततो मुक्तिर्न संशयः ॥ १७ ॥
तद्विहीनः पशुर्ज्ञेयो मायाबन्धनसक्तधीः ।
संसारबन्धनान्नैव मुक्तो भवति स ध्रुवम् ॥ १८ ॥
अतो हि द्विजपत्नि त्वं विषयेभ्यो निवृत्तधीः ।
शृणु शम्भोः कथां चैतां भक्त्या परमपावनीम् ॥ १९ ॥
शृण्वन्त्याः सत्कथामेतां शङ्‌करस्य परात्मनः ।
शुद्धिमेष्यति चेतस्ते ततो मुक्तिमवाप्स्यसि ॥ २० ॥
ध्यायतः शिवपादाब्जं चेतसा निर्मलेन वै ।
एकेन जन्मना मुक्तिः सत्यं सत्यं वदाम्यहम् ॥ २१ ॥
सूत उवाच -
इत्युक्त्वा स द्विजवरो वरः शैवः कृपार्द्रधीः ।
तूष्णीं बभूव शुद्धात्मा शिवध्यानपरायणः ॥ २२ ॥
अथ बिन्दुगपत्नी सा चञ्चुलाह्वा प्रसन्नधीः ।
इत्युक्ता तेन विप्रेण समासीद्‌बाष्पलोचना ॥ २३ ॥
पपातारं द्विजेन्द्रस्य पादयोस्तस्य हृष्टधीः ।
चञ्चुला साञ्जलिः सा च कृतार्थास्मीत्यभाषत ॥ २४ ॥
चञ्चुलोवाच -
अथ सोत्थाय सातङ्‌का साञ्जलिर्गद्‌गदाक्षरम् ।
तमुवाच महाशैवं द्विजं वैराग्ययुक्‍सुधीः ॥ २५ ॥
ब्रह्मञ्छैववर स्वामिन्धन्यस्त्वं परमार्थदृक् ।
परोपकारनिरतो वर्णनीयः सुसाधुषु ॥ २६ ॥
उद्धरोद्धर मां साधो पतन्तीं नरकार्णवे ।
श्रुत्वा यां सुकथां शैवीं पुराणार्थविजृम्भिताम् ॥ २७ ॥
विरक्तधीरहं जाता विषयेभ्यश्च सर्वतः ।
सुश्रद्धा महती ह्येतत्पुराणश्रवणेऽधुना ॥ २८ ॥
सूत उवाच -
इत्युक्त्वा साञ्जलिः सा वै सम्प्राप्य तदनुग्रहम् ।
तत्पुराणं श्रोतुकामाऽतिष्ठत्तत्सेवने रता ॥ २९ ॥
अथ शैववरो विप्रस्तस्मिन्नेव स्थले सुधीः ।
सत्कथां श्रावयामास तत्पुराणस्य तां स्त्रियम् ॥ ३० ॥
इत्थं तस्मिन्महाक्षेत्रे तस्मादेव द्विजोत्तमात् ।
कथां शिवपुराणस्य सा शुश्राव महोत्तमाम् ॥ ३१ ॥
भक्तिज्ञानविरागाणां वर्द्धिनीं मुक्तिदायिनीम् ।
बभूव सुकृतार्था सा श्रुत्वा तां सत्कथां पराम् ॥ ३२ ॥
सद्‌गुरोस्तस्य कृपया शुद्धचित्ता च सा द्रुतम् ।
शिवानुग्रहतः शम्भोः रूपध्यानमवाप ह ॥ ३३ ॥
इत्थं सद्गुरुमाश्रित्य सा प्राप्तशिवसन्मतिः ।
दध्यौ मुहुर्मुहुः शम्भोश्चिदानन्दमयं वपुः ॥ ३४ ॥
स्नात्वा तीर्थजले नित्यं जटावल्कलधारिणी ।
भस्मोद्धूलितसर्वाङ्‌गी रुद्राक्षकृतभूषणा ॥ ३५ ॥
शिवनामजपासक्ता वाग्यता मितभोजना ।
गुरूपदिष्टमार्गेण सा शिवं समतोषयत् ॥ ३६ ॥
एवं तस्याचञ्चुलायाः कुर्वन्त्या ध्यानमुत्तमम् ।
बहुकालो व्यतीयाय शम्भोस्तत्रैव शौनक ॥ ३७ ॥
अथ कालेन पूर्णेन भक्तित्रिकसमन्विता ।
समुत्ससर्ज देहं स्वमनायासेन चञ्चुला ॥ ३८ ॥
विमानं द्रुतमायान्तं प्रेषितं त्रिपुरारिणा ।
दिव्यं स्वगणसंयुक्तं नानाशोभासमन्वितम् ॥ ३९ ॥
अथ तत्र समारूढा महेशानुचरैर्वरैः ।
नीता शिवपुरीं सद्यो ध्वस्तसर्वमला च सा ॥ ४० ॥
दिव्यरूपधरा दिव्या दिव्यावयवशालिनी ।
चन्द्रार्द्धशेखरा गौरी विलसद्दिव्यभूषणा ॥ ४१ ॥
गत्वा तत्र महादेवं सा ददर्श त्रिलोचनम् ।
विष्णुब्रह्मादिभिर्देवैः सेव्यमानं सनातनम् ॥ ४२ ॥
गणेशभृङ्‌गिनन्दीशवीरभद्रेश्वरादिभिः ।
उपास्यमानं सद्‌भक्त्या कोटिसूर्यसमप्रभम् ॥ ४३ ॥
नीलग्रीवं पञ्चवक्त्रं त्र्यम्बकं चन्द्रशेखरम् ।
वामाङ्‌गे बिभ्रतं गौरीं विद्युत्पुञ्जसमप्रभाम् ॥ ४४ ॥
कर्पूरगौरं गौरीशं सर्वालङ्‌कारधारिणम् ।
सितभस्मलसद्देहं सितवस्त्रं महोज्जलम् ॥ ४५ ॥
दृष्ट्‍वैवं शङ्‌करं नारी सा मुमोदातिचञ्चुला ।
सुसम्भ्रमान्महाप्रीता प्रणनाम पुनः पुनः ॥ ४६ ॥
साञ्जलिः सा मुदा प्रेम्णा सन्तुष्टा च विनीतका ।
आनन्दाश्रुजलैर्युक्ता रोमहर्षसमन्विता ॥ ४७ ॥
अथ सा वै करुणया पार्वत्या शङ्‌करेण च ।
समानीतोपकण्ठं हि सुदृष्ट्या च विलोकिता ॥ ४८ ॥
पार्वत्या सा कृता प्रीत्या स्वसखी दिव्यरूपिणी ।
दिव्यसौख्यान्विता तत्र चञ्चुला बिन्दुगप्रिया ॥ ४९ ॥
तस्मिंल्लोके परानन्दघनज्योतिषि शाश्वते ।
लब्ध्वा निवासमचलं लेभे सुखमनाहतम् ॥ ५० ॥
इति श्रीस्कान्दे महापुराणे शिवपुराणमाहात्म्ये
चञ्चुलावैराग्यवर्णनं नाम चतुर्थोऽध्यायः ॥

Thursday, January 3, 2019

॥ श्रीशिवपुराणमाहात्म्यम् ॥ तृतीयोऽध्यायः ॥

श्रीशिवपुराणमाहात्म्ये तृतीयोऽध्यायः

चंचुलावैराग्यवर्णनम्



शौनक उवाच -
सूत सूत महाभाग सर्वज्ञोऽसि महामते ।
त्वत्प्रसादात्कृतार्थोऽहं कृतार्थोऽहं पुनः पुनः ॥ १ ॥
इतिहासमिमं श्रुत्वा मनो मेऽतीव मोदते ।
अन्यामपि कथां शम्भोर्वद प्रेमविवर्द्धिनीम् ॥ २ ॥
नामृतम्पिबतां लोके मुक्तिः क्वापि सभाज्यते ।
शम्भोः कथा सुधापानं प्रत्यक्षं मुक्तिदायकम् ॥ ३ ॥
धन्या धन्या कथा शम्भोस्त्वं धन्यो धन्य एव च ।
यदाकर्णनमात्रेण शिवलोकं व्रजेन्नरः ॥ ४ ॥
सूत उवाच -
शृणु शौनक वक्ष्यामि त्वदग्रे गुह्यमप्युत ।
यतस्त्वं शिवभक्तानामग्रणीर्वेदवित्तमः ॥ ५ ॥
समुद्रनिकटे देशे ग्रामो बाष्कलसंज्ञकः ।
वसन्ति यत्र पापिष्ठा वेदधर्मोज्झिता जनाः ॥ ६ ॥
दुष्टा दुर्विषयात्मानो निर्दैवा जिह्मवृत्तयः ।
कृषीवलाः शस्त्रधराः परस्त्रीभोगिनः खलाः ॥ ७ ॥
ज्ञानवैराग्यसद्धर्मं न जानन्ति परं हि ते ।
कुकथाश्रवणाढ्येषु निरताः पशुबुद्धयः ॥ ८ ॥
अन्ये वर्णाश्च कुधियः स्वधर्मविमुखाः खलाः ।
कुकर्मनिरता नित्यं सदा विषयिणश्च ते ॥ ९ ॥
स्त्रियः सर्वाश्च कुटिलाः स्वैरिण्यः पापलालसाः ।
कुधियो व्यभिचारिण्यः सद्‌वृत्ताचारवर्जिताः ॥ १० ॥
एवं कुजनसंवासे ग्रामे बाष्कलसंज्ञिते ।
तत्रैको बिन्दुगो नाम विप्र आसीन्महाधमः ॥ ११ ॥
स दुरात्मा महापापी सुदारोऽपि कुमार्गगः ।
वेश्यापतिर्बभूवाथ कामाकुलितमानसः ॥ १२ ॥
स्वपत्नीं चञ्चुला नाम हित्वा नित्यं सुधर्मिणीम् ।
रेमे स वेश्यया दुष्टः स्मरबाणप्रपीडितः ॥ १३ ॥
एवं कालो व्यतीयाय महांस्तस्य कुकर्मणः ।
सा स्वधर्मभयाक्लेशात्स्मरार्तापि च चञ्चुला ॥ १४ ॥
अथ तस्याङ्गना सापि प्ररूढनवयौवना ।
अविषह्यस्मरावेशा स्वधर्माद्‌विरराम ह ॥ १५ ॥
जारेण सङ्‍गता रात्रौ रेमे पापेन गुप्ततः ।
पतिदृष्टिं वञ्चयित्वा भ्रष्टसत्त्वा कुमार्गगा ॥ १६ ॥
कदाचित्तां दुराचारां स्वपत्नीं चञ्चुलां मुने ।
जारेण सङ्‍गतां रात्रौ ददर्श स्मरविह्वलाम् ॥ १७ ॥
दृष्ट्‍वा तां दूषितां पत्‍नीं कुकर्मासक्तमानसाम् ।
जारेण सङ्‍गतां रात्रौ क्रोधाद्‌द्रुदाव वेगतः ॥ १८ ॥
तमागतं गृहे दुष्टमाज्ञाय बिन्दुगं खलः ।
पलायितो द्रुतं जारो वेगतश्छद्मवान्स वै ॥ १९ ॥
अथ स बिन्दुगः पत्नीं गृहीत्वा सुदुराशयः ।
मुष्टिबन्धेन सन्तर्ज्य पुनः पुनरताडयत् ॥ २० ॥
सा नारी ताडिता भर्त्रा चञ्चुला स्वैरिणी खला ।
कुपिता निर्भया प्राह स्वपतिं बिन्दुगं खलम् ॥ २१ ॥
चञ्चुलोवाच -
भवान्प्रतिदिनं कामं रमते वेश्यया कुधीः ।
मां विहाय स्वपत्नीं च युवती पतिसेविनीम् ॥ २२ ॥
रूपवत्या युवत्याश्च कामाकुलितचेतसः ।
विना पतिविहारं स्यात् का गतिर्मे भवान् वदेत् ॥ २३ ॥
अहं महारूपवती नवयौवनविह्वला ।
कथं सहे कामदुःखं तव सङ्‌गंविनाऽऽर्तधीः ॥ २४ ॥
सूत उवाच -
इत्युक्तः स तया मूर्खो मूढधीर्ब्राह्मणोऽधमः ।
प्रोवाच बिन्दुगः पापी स्वधर्मविमुखः खलः ॥ २५ ॥
बिन्दुग उवाच -
सत्यमेतत्त्वयोक्तं हि कामव्याकुलचेतसा ।
हितं वक्ष्यामि तस्मात्ते शृणु कान्ते भयं त्यज ॥ २६ ॥
जारैर्विहर नित्यं त्वं चेतसा निर्भयेन वै ।
धनमाकर्ष तेभ्यो हि दत्त्वा तेभ्यः परां रतिम् ॥ २७ ॥
तद्धनं देहि सर्वं मे वेश्यासंसक्तचेतसः ।
महत्स्वार्थं भवेन्नूनं तवापि च ममापि च ॥ २८ ॥
 सूत उवाच -
इति भर्तृवचः श्रुत्वा चञ्चुला तद्वधूश्च सा ।
तथेति भर्तृवचनं प्रतिजग्राह हृष्टधीः ॥ २९ ॥
कृत्वैवं समयं तौ वै दम्पती दुष्टमानसौ ।
कुकर्मनिरतौ जातौ निर्भयेन कुचेतसा ॥ ३० ॥
एवं तयोस्तु दम्पत्योर्दुराचारप्रवृत्तयोः ।
महान्कालो व्यतीयाय निष्कलो मूढचेतसोः ॥ ३१ ॥
अथ विप्रः स कुमतिर्बिन्दुगो वृषलीपतिः ।
कालेन निधनं प्राप्तो जगाम नरकं खलः ॥ ३२ ॥
भुक्त्या नरकदुःखानि बह्वहानि स मूढधीः ।
विन्ध्येऽभवत्पिशाचो हि गिरौ पापी भयङ्‍करः ॥ ३३ ॥
मृते भर्तरि तस्मिन्वै दुराचारेऽथ बिन्दुगे ।
उवास स्वगृहे पुत्रैश्चिरकालं विमूढधीः ॥ ३४ ॥
एवं विहरती जारैः सा नारी चञ्चुलाह्वया ।
आसीत् कामरता प्रीता किञ्चिदुत्क्रान्तयौवना ॥ ३५ ॥
एकदा दैवयोगेन सम्प्राप्ते पुण्यपर्वणि ।
सा नारी बन्धुभिः सार्द्धं गोकर्णं क्षेत्रमाययौ ॥ ३६ ॥
प्रसङ्‍गात्सा तदा गत्वा कस्मिंश्चित्तीर्थपाथसि ।
सस्नौ सामान्यतो यत्र तत्र बभ्राम बन्धुभिः ॥ ३७ ॥
देवालयेऽथ कस्मिंश्चिद्दैवज्ञमुखतः शुभाम् ।
शुश्राव सत्कथां शम्भोः पुण्यां पौराणिकीं च सा ॥
योषितां जारसक्तानां नरके यमकिङ्‍कराः ।
सन्तप्तलोहपरिघं क्षिपन्ति स्मरमन्दिरे ॥ ३९ ॥
इति पौराणिकेनोक्तां श्रुत्वा वैराग्यवर्द्धिनीम् ।
कथामासीद्‌भयोद्विग्ना चकम्पे तत्र सा च वै ॥ ४० ॥
कथासमाप्तौ सा नारी निर्गतेषु जनेषु च ।
भीता रहसि तं प्राह शैवं संवाचकं द्विजम् ॥ ४१ ॥
चञ्चलोवाच -
ब्रह्मंस्त्वं शृण्वसद्वृत्तमजानन्त्या स्वधर्मकम् ।
श्रुत्वा मामुद्धर स्वामिन् कृपां कृत्वातुलामपि ॥ ४२ ॥
चरितं सूल्बणं पापं मया मूढधिया प्रभो ।
नीतं पौंश्चल्यतः सर्वं यौवनं मदनान्धया ॥ ४३ ॥
श्रुत्वेदं वचनं तेऽद्य वैराग्यरसजृम्भितम् ।
जाता महाभया साऽहं सकम्पात्तवियोगिका ॥ ४४ ॥
धिङ्‌गां मूढधियं पापां काममोहितचेतसाम् ।
निन्द्यां दुर्विषयासक्तां विमुखीं हि स्वधर्मतः ॥ ४५ ॥
यदल्पस्य सुखस्यार्थे स्वकार्यस्य विनाशिनः ।
महापापं कृतं घोरमजानन्त्याऽतिकष्टदम् ॥ ४६ ॥
यास्यामि दुर्गतिं कां कां घोरां हा कष्टदायिनीम् ।
को ज्ञो यास्यति मां तत्र कुमार्गरतमानसाम् ॥ ४७ ॥
मरणे यमदूतांस्तान्कथं द्रक्ष्ये भयङ्‌करान् ।
कथं पाशैर्बलात्कण्ठे बध्यमाना धृतिं लभे ॥ ४८ ॥
कथं सहिष्ये नरके खण्डशो देहकृन्तनम् ।
यातनां तत्र महतीं दुःखदां च विशेषतः ॥ ४९ ॥
दिवा चेष्टामिन्द्रियाणां कथं प्राप्स्यामि शोचती ।
रात्रौ केयं लभिष्येऽहं निद्रां दुःखपरिप्लुता ॥ ५० ॥
हा हतास्मि च दग्धास्मि विदीर्णहृदयास्मि च ।
सर्वथाऽहं विनष्टाऽस्मि पापिनी सर्वथाप्यहम् ॥ ५१ ॥
हा विधे मां महापापे दत्त्वा दुःशेमुषीं हठात् ।
अपैति यत्स्वधर्माद्वै सर्वसौख्यकरादहो ॥ ५२ ॥
शूलप्रोतस्य शैलाग्रात्पततस्तुङ्‍गतो द्विज ॥
यद्दुःखं देहिनो घोरं तस्मात्कोटिगुणं मम ॥ ५३ ॥
अश्वमेधशतं कृत्वा गङ्‌गां स्नात्वा शतं समाः ।
न शुद्धिर्जायते प्रायो मत्पापस्य गरीयसः ॥ ५४ ॥
किं करोमि क्व गच्छामि कं वा शरणमाश्रये ।
कस्त्रायेत मां लोकेऽस्मिन्पतन्तीं नरकार्णवे ॥ ५५ ॥
त्वमेव मे गुरुर्ब्रह्मंस्त्वं माता त्वं पिताऽसि च ।
उद्धरोद्धर मां दीनां त्वामेव शरणं गताम् ॥ ५६ ॥
सूत उवाच -
इति सञ्जातनिर्वेदां पतिताञ्चरणद्वये ।
उत्थाप्य कृपया धीमान्बभाषे ब्राह्मणः स हि ॥ ५७ ॥
इति श्रीस्कान्दे महापुराणे शिवपुराणमाहाम्ये
चञ्चुलावैराग्यवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥

Wednesday, January 2, 2019

॥ श्रीशिवपुराणमाहात्म्यम् ॥ द्वितीयोऽध्यायः ॥

श्रीशिवपुराणमाहात्म्ये द्वितीयोऽध्यायः   

देवराजमुक्तिवर्णनम्


शौनक उवाच -
सूत सूत महाभाग धन्यस्त्वं परमार्थवित् ।
अद्‌भुतेयं कथा दिव्या श्राविता कृपया हि नः ॥ १ ॥
अघौघविध्वंसकरी मनःशुद्धिविधायिनी ।
शिवसन्तोषजननी कथेय नः श्रुताऽद्भुता ॥ २ ॥
एतत्कथासमानं न भुवि किञ्चित्परात्परम् ।
निश्चयेनेति विज्ञातमस्माभिः कृपया तव ॥ ३ ॥
के के विशुद्ध्यन्त्यनया कथया पापिनः कलौ ।
वद तान्कृपया सूत कृतार्थं भुवनं कुरु ॥ ४ ॥
सूत उवाच -
ये मानवाः पापकृतो दुराचाररताः खलाः ।
कामादिनिरता नित्यं तेऽपि शुद्ध्यन्त्यनेन वै ॥ ५ ॥
ज्ञानयज्ञः परोऽयं वै भुक्तिमुक्तिप्रदः सदा ।
शोधनः सर्वपापानां शिवसन्तोषकारकः ॥ ६ ॥
तृष्णाकुलाः सत्यहीनाः पितृमातृविदूषकाः ।
दाम्भिका हिंसका ये च तेऽपि शुद्ध्यन्त्यनेन वै ॥ ७ ॥
स्ववर्णाश्रमधर्मेभ्यो वर्जिता मत्सरान्विताः ।
ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ ८ ॥
छलच्छद्मकरा ये च ये च क्रूराः सुनिर्दयाः ।
ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ ९ ॥
ब्रह्मस्वपुष्टाः सततं व्यभिचाररताश्च ये ।
ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ १० ॥
सदा पापरता ये च ये शठाश्च दुराशयाः ।
ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ ११ ॥
मलिना दुर्धिर्योऽशान्ता देवताद्रव्यभोजिनः ।
ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ १२ ॥
पुराणस्यास्य पुण्यं सन्महापातकनाशनम् ।
भुक्तिमुक्तिप्रदं चैव शिवसन्तोषहेतुकम् ॥ १३ ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
यस्य श्रवणमात्रेण पापहानिर्भवत्यलम् ॥ १४ ॥
आसीत्किरातनगरे ब्राह्मणो ज्ञानदुर्बलः ।
दरिद्रो रसविक्रेता देवधर्मपराङ्मुखः ॥ १५ ॥
सन्ध्यास्नानपरिभ्रष्टो वैश्यवृत्तिपरायणः ।
देवराज इति ख्यातो विश्वस्तजनवञ्चकः ॥ १६ ॥
स विप्रान्क्षत्रियान्वैश्याञ्छूद्रांश्चापि तथापरान् ।
हत्वा नानामिषेणैव तत्तद्धनमपाहरत् ॥ १७ ॥
अधर्माद्‌बहुवित्तानि पश्चात्तेनार्जितानि वै ।
न धर्माय धनं तस्य स्वल्पञ्चापीह पापिनः ॥ १८ ॥
एकदैकतडागे स स्नातुं यातो महीसुरः ।
वेश्यां शोभावतीं नाम दृष्ट्‍वा तत्रातिविह्वलः ॥ १९ ॥
स्ववशं धनिनं विप्रं ज्ञात्वा हृष्टाऽथ सुन्दरी ।
वार्तालापेन तच्चित्तं प्रीतिमत्समजायत ॥ २० ॥  


स्त्रियं कर्तुं स ताम्मेने पतिं कर्तुं च सा तथा ।
एवं कामवशौ भूत्वा बहुकालं विजह्रतुः ॥ २१ ॥
आसने शयने पाने भोजने क्रीडने तथा ।
दम्पतीव सदा द्वौ तु ववृताते परस्परम् ॥ २२ ॥
मात्रा पित्रा तथा पत्‍न्या वारितोऽपि पुनः पुनः ।
नामन्यत वचस्तेषां पापवृत्तिपरायणः ॥ २३ ॥
एकदेर्ष्यावशाद्रात्रौ मातरं पितरं वधूम् ।
प्रसुप्तान्न्यवधीद्‌दृष्टो धनन्तेषान्तथाऽहरत् ॥ २४ ॥
आत्मनीनं धनं यच्च पित्रादीनां तथा धनम् ।
वेश्यायै दत्तवान्सर्वं कामी तद्‍गतमानसः ॥ २५ ॥
सोऽभक्ष्यभक्षकः पापी मदिरापानलालसः ।
एकपात्रे सदाऽभौक्षीत्सवेश्यो ब्राह्मणाधमः ॥ २६ ॥
कदाचिद्दैवयोगेन प्रतिष्ठानमुपागतः ।
शिवालयं ददर्शाऽसौ तत्र साधुजनावृतम् ॥ २७ ॥
स्थित्वा तत्र च विप्रोऽसौ ज्वरेणातिप्रपीडितः ।
शुश्राव सततं शैवीं कथां विप्रमुखोद्‌गताम् ॥ २८ ॥
देवराजश्च मासान्ते ज्वरेणापीडितो मृतः ।
बद्धो यमभटैः पाशैर्नीतो यमपुरम्बलात् ॥ २९ ॥
तावच्छिवगणाः शुभ्रास्त्रिशूलाञ्चितपाणयः ।
भस्मभासितसर्वाङ्‍गा रुद्राक्षाञ्चितविग्रहाः ॥ ३० ॥
शिवलोकात्समागत्य क्रुद्धा यमपुरीं ययुः ।
ताडयित्वा तु तदूतांस्तर्जयित्वा पुनः पुनः ॥ ३ १ ॥
देवराजं समामोच्य विमाने परमाद्‌भुते ।
उपवेश्य यदा दूताः कैलासं गन्तुमुत्सुकाः ॥ ३२ ॥
तदा यमपुरीमध्ये महाकोलाहलोऽभवत् ।
धर्मराजस्तु तं श्रुत्वा स्वालयाद्‍बहिरागमत् ॥ ३३ ॥
दृष्ट्‍वाऽथ चतुरो दूतान्साक्षाद्‌रुद्रानिवापरान् ।
पूजयामास धर्मज्ञो धर्मराजो यथाविथि ॥ ३४ ॥
ज्ञानेन चक्षुषा सर्वं वृत्तान्तं ज्ञातवान्यमः ।
न भयात्पृष्टवान्किञ्चिच्छम्भोर्दूतान्महात्मनः ॥ ३५ ॥
पूजिता प्रार्थितास्ते वै कैलासमगमंस्तदा ।
ददुश्शिवाय साम्बाय तं दयावारिराशये ॥ ३६ ॥
धन्या शिवपुराणस्य कथा परमपावनी ।
यस्याः श्रवणमात्रेण पापीयानपि मुक्तिभाक् ॥ ३७ ॥
सदाशिवमहास्थानं परं धाम परम्पदम् ।
यदाऽऽहुर्वेदविद्वांसः सर्वलोकोपरि स्थितम् ॥ ३८ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा अन्येऽपि प्राणिनः ।
हिंसिता धनलोभेन बहवो येन पापिना ॥ ३९ ॥
मातृपितृवधूहन्ता वेश्यागामी च मद्यपः ।
देवराजो द्विजस्तत्र गत्वा मुक्तोऽभवत्क्षणात् ॥ ४० ॥
इति श्रीस्कान्दे महापुराणे शिवपुराणमाहाम्ये
देवराजमुक्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥ 

Tuesday, January 1, 2019

॥ श्रीशिवपुराणमाहात्म्यम् ॥ प्रथमोऽध्यायः ॥

श्रीशिवपुराणमाहात्म्ये प्रथमोऽध्यायः 
शिवपुराणमहत्त्वम्



श्रीशौनक उवाच -
हे हे सूत महाप्राज्ञ सर्वसिद्धान्तवित्प्रभो ।
आख्याहि मे कथासारं पुराणानां विशेषतः ॥ १ ॥
सदाचारश्च सद्‌भक्तिर्विवेको वर्द्धते कथम् ।
स्वविकारनिरासश्च सज्जनैः क्रियते कथम् ॥ २ ॥
जीवाश्चासुरतां प्राप्ताः प्रायो घोरे कलाविह ।
तस्य संशोधने किं हि विद्यते परमायनम् ॥ ३ ॥
यदस्ति वस्तु परमं श्रेयसां श्रेय उत्तमम् ।
पावनं पावनानां च साधनं तद्वदाधुना ॥ ४ ॥
येन तत्साधनेनाशु शुद्ध्यत्यात्मा विशेषतः ।
शिवप्राप्तिर्भवेत्तात सदा निर्मलचेतसः ॥ ५ ॥
सूत उवाच -
धन्यस्त्वं मुनिशार्दूल श्रवणप्रीतिलालसः ।
अतो विचार्य सुधिया वच्मि शास्त्रं महोत्तमम् ॥ ६ ॥
सर्वसिद्धान्तनिष्पन्नं भक्त्यादिकविवर्द्धनम् ।
शिवतोषकरं दिव्यं शृणु वत्स रसायनम् ॥ ७ ॥
कालव्यालमहात्रासविध्वंसकरमुत्तमम् ।
शैवं पुराण परमं शिवेनोक्तं पुरा मुने ॥ ८ ॥
सनत्कुमारस्य मुनेरुपदेशात्परादरात् ।
व्यासेनोक्तं तु सङ्‌क्षेपात्कलिजानां हिताय च ॥ ९ ॥
एतस्मादपरं किञ्चित्पुराणाच्छैवतो मुने ।
विद्यते न मनःशुद्ध्यै कलिजानां विशेषतः ॥ १० ॥
जन्मान्तरे भवेत्पुण्यं महद्यस्य सुधीमतः ।
तस्य प्रीतिर्भवेत्तत्र महाभाग्यवतो मुने ॥ ११ ॥
एतच्छिवपुराणं हि परमं शास्त्रमुत्तमम् ।
शिवरूपं क्षितौ ज्ञेयं सेवनीयं च सर्वथा ॥ १२ ॥
पठनाच्छ्रवणादस्य भक्तिमान्नरसत्तमः ।
सद्यः शिवपदप्राप्तिं लभते सर्वसाधनात् ॥ १३ ॥
तस्मात्सर्वप्रयत्नेन काङ्‌क्षितं पठनं नृभिः ।
तथास्य श्रवणं प्रेम्णा सर्वकामफलप्रदम् ॥ १४ ॥
पुराणश्रवणाच्छम्भोर्निष्पापो जायते नरः ।
भुक्त्वा भोगान्सुविपुलाञ्छिवलोकमवाप्नुयात् ॥ १५ ॥
राजसूयेन यत्पुण्यमग्निष्टोमशतेन च ।
तत्पुण्यं लभते शम्भोः कथाश्रवणमात्रतः ॥ १६ ॥
ये शृण्वन्ति मुने शैवं पुराणं शास्त्रमुत्तमम् ।
ते मनुष्या न मन्तव्या रुद्रा एव न संशयः ॥ १७ ॥
शृण्वतां तत्पुराणं हि तथा कीर्तयतां च तत् ।
पादाम्बुजरजांस्येव तीर्थानि मुनयो विदुः ॥ १८ ॥
गन्तुं निःश्रेयसं स्थानं येऽभिवाञ्छन्ति देहिनः ।
शैवंपुराणममलं भक्त्या शृण्वन्तु ते सदा ॥ १९ ॥
सदा श्रोतुं यद्यशक्तो भवेत्स मुनिसत्तम ।
नियतात्मा प्रतिदिनं शृणुयाद्वा मुहूर्तकम् ॥ २० ॥
यदि प्रतिदिनं श्रोतुमशक्तो मानवो भवेत् ।
पुण्यामासादिषु मुने श्रूयाच्छिवपुराणकम् ॥ २१ ॥
मुहूर्तं वा तदर्द्धं वा तदर्द्धं वा क्षणं च वा ।
ये शृण्वन्ति पुराणं तन्न तेषां दुर्गतिर्भवेत् ॥ २२ ॥
तत्पुराणं च शृण्वानः पुरुषो यो मुनीश्वर ।
स निस्तरति संसारं दग्ध्वा कर्ममहाटवीम् ॥ २३ ॥
तत्पुण्यं सर्वदानेषु सर्वयज्ञेषु वा मुने ।
शंभोः पुराणश्रवणात्तत्फलं निश्चलं भवेत् ॥ २४ ॥
विशेषतः कलौ शैवपुराणश्रवणादृते ।
परो धर्मो न पुंसां हि मुक्तिसाधनकृन्मुने ॥ २५ ॥
पुराणश्रवणं शम्भोर्नामसङ्‌कीर्तनं तथा ।
कल्पद्रुमफलं सम्यङ्‌मनुष्याणां न संशयः ॥ २६ ॥ 

कलौ दुर्मेधसा पुंसां धर्माचारोज्झितात्मनाम् ।
हिताय विदधे शम्भुः पुराणाख्यं सुधारसम् ॥ २७ ॥
एकोऽजरामरः स्याद्वै पिबन्नेवामृतं पुमान् ।
शम्भोः कथामृतं कुर्यात्कुलमेवाजरामरम् ॥ २८ ॥
सदा सेव्या सदा सेव्या सदा सेव्या विशेषतः ।
एतच्छिवपुराणस्य कथा परमपावनी ॥ २९ ॥
एतच्छिवपुराणस्य कथाश्रवणमात्रतः ।
किं ब्रवीमि फलं तस्य शिवश्चित्तं समाश्रयेत् ॥ ३० ॥
चतुर्विंशतिसाहस्रो ग्रन्थोऽयं सप्तसंहितः ।
भक्तित्रिकसुसम्पूर्णः शृणुयात् तं परादरात् ॥ ३१ ॥
विद्येश्वरसंहिताऽऽद्या द्वितीया रुद्रसंहिता ।
तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ ३२ ॥
पञ्चम्युमासहितोक्ता षष्ठी कैलाससंहिता ।
सप्तमी वायवीयाख्या सप्तैवं संहिता इह ॥ ३३ ॥
ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् ।
वरीवर्ति ब्रह्मतुल्यं सर्वोपरिगतिप्रदम् ॥ ३४ ॥
एतच्छिवपुराणं हि सप्तसंहितमादरात् ।
परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ॥ ३५ ॥
पुमानज्ञानतस्तावद्‌भ्रमतेऽस्मिन्भवे मुने ।
यावत्कर्णगतं नास्ति पुराण शैवमुत्तमम् ॥ ३६ ॥
किं श्रुतैर्बहुभिः शास्त्रंः पुराणैश्च भ्रमावहैः ।
शैवम्पुराणमेकं हि मुक्तिदानेन गर्जति ॥ ३७ ॥
एतच्छिवपुराणस्य कथा भवति यद्गृहे ।
तीर्थभूतं हि तद्‌गेहं वसतां पापनाशनम् ॥ ३८ ॥
अश्वमेधसहस्राणि वाजपेयशतानि च ।
कलां शिवपुराणस्य नार्हन्ति खलु षोडशीम् ॥ ३९ ॥
तावत्स प्रोच्यते पापी पापकृन्मुनिसत्तम ।
यावच्छिवपुराणं हि न शृणोति सुभक्तितः ॥ ४० ॥
गङ्‌गाद्याः पुण्यनद्यश्च सप्तपुर्य्यो गया तथा ।
एतच्छिवपुराणस्य समतां यान्ति न क्वचित् ॥ ४१ ॥
नित्यं शिवपुराणस्य श्लोकं श्लोकार्द्धमेव च ।
स्वमुखेन पठेद्‌भक्त्या यदीच्छेत्परमां गतिम् ॥ ४२ ॥
एतच्छिवपुराणं यो वाचयेदर्थतोऽनिशम् ।
पठेद्वा प्रीतितो नित्यं स पुण्यात्मा न संशयः ॥ ४३ ॥
अन्तकाले हि यश्चैनं शृणुयाद्‌भक्तितः सुधीः ।
सुप्रसन्नो महेशानस्तस्मै यच्छति स्वं पदम् ॥ ४४ ॥
एतच्छिवपुराणं यः पूजयेन्नित्यमादरात् ।
स भुक्त्वेहाखिलान्कामानन्ते शिवपदं लभेत् ॥ ४५ ॥
एतच्छिवपुराणस्य कुर्वन्नित्यमतन्द्रितः ।
पट्टवस्त्रादिना सम्यक् सत्कारं स सुखी सदा ॥ ४६ ॥
शैवं पुराणममलं शैवसर्वस्वमादरात् ।
सेवनीयं प्रयत्नेन परत्रेहसुखेप्सुना ॥ ४७ ॥
चतुर्वर्गप्रदं शैवं पुराणममलं परम् ।
श्रोतव्यं सर्वदा प्रीत्या पठितव्यं विशेषतः ॥ ४८ ॥
वेदेतिहासशास्त्रेषु परं श्रेयस्करं महत् ।
शैवं पुराणं विज्ञेयं सर्वथा हि मुमुक्षुभिः ॥ ४९ ॥
शैवं पुराणमिदमात्मविदां वरिष्ठं
     सेव्यं सदा परमवस्तु सता समर्च्यम् ।
तापत्रयाभिशमनं सुखदं सदैव
     प्राणप्रियं विधिहरीशमुखामराणाम् ॥ ५० ॥
वन्दे शिवपुराणं हि सर्वदाऽहं प्रसन्नधीः ।
शिवः प्रसन्नतां यायाद्‌दद्यात्स्वपदयो रतिम् ॥ ५१ ॥
इति श्रीस्कान्दे महापुराणे शिवपुराणमाहात्म्ये
तन्महिमवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥  


॥ विद्येश्वरसंहिता दशमोऽध्यायः ॥

विद्येश्वरसंहितायां दशमोऽध्यायः ब्रह्मविष्णुभ्यां पंचकृत्यमोंकारमंत्रं चोपदिश्य शिवस्यान्तर्धानम् - ब्रह्मविष्णू ऊचतुः - सर्गादिपञ्चकृत्...